Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 83
________________ वर्गचूलिका __ अग्निदत्त ! ततोऽनन्तरं सा कामलता परिव्राजिका अष्टसप्ततिः वर्षाणि गृहवासं कृत्वा, षोडशवर्षाणि यावत् परिव्राजकधर्ममनुरक्ता सती प्रतिपाल्य, षडूनवर्षशतम् - चतुर्नवति - वत्सरमितम्, सर्वायुः प्राप्य, अत्र वाचनान्तरे षड्विंशतिवत्सरमितः परिव्राजिकापर्यायः, चतुरुत्तरशतसंवत्सरप्रमाणं च सर्वायुरभिहितम्, तदत्र तत्त्वं तद्विदो विदन्ति । सप्ताहोरात्राणि यावन् निरशनस्थिता - प्रतिपन्नानशना, कालं कृत्वा - मरणमुपगम्य, दक्षिणेन्द्रस्य सुवत्सस्य वानव्यन्तरस्य देशोनपल्यार्धायुष्का - किञ्चिन्न्यूनार्धपल्योपमस्थितिमती, सुवत्सानाम्नी देवी उत्पत्स्यते । सा सुवच्छा वाणवंतरी ओहिणा पुबबहुभवसंबद्धिणो ते दुवीसवाणियग पासित्ता हट्टतुट्ठा ताणं दुवीसवाणिगाणं दुट्ठाणं जाव परिहवंताणं पुब्बबहुभव एगओ सहिआणं परमपीइए साहज्जिं करिस्सति । सा च सुवत्सा वानव्यन्तरी अवधिना पूर्वबहुभवसम्बन्धिनस्ते द्वाविंशतिवणिजो दृष्ट्वा हृष्टा - अहो ! एते मदनुरागिण इत्यादिविमर्षतो हर्षातिशयमुपयाता, तुष्टा - १. ग.छ - हिणे । २. ग-०ट्टपुट्ठा । ३. ख.छ - ०हाएज्जं ।

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112