Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 74
________________ वर्गोपनिषद् इति दत्तसङ्केता इत्यर्थः, ते द्वाविंशतिभण्डकाः कलकलारावं - कोलाहलम्, कुर्वाणाः प्रधाविष्यन्ति - मुनिद्वयस्य सम्मुखं वेगेन गमिष्यन्ति । ततश्च ते साहूणं युगलं संघट्टइस्संति परियावइस्संति किलामइस्संति उद्दवइस्संति हीलइस्संति प्रिंसिस्संति निंदिस्संति गरिहिस्संति पुरहियपामोखाणं हासं जणइस्संति । ते भण्डकास्तं साध्वोर्युगलं सङ्घट्टयिष्यन्ति - स्वकीयशरीरेण घर्षणविषयीकरिष्यन्ति, परितापयिष्यन्ति - पीडयिष्यन्ति, क्लमयिष्यन्ति - ग्लानिं प्रापयिष्यन्ति, उपद्रावयिष्यन्ति - उपद्रवगोचरीकरिष्यन्ति, हीलयिष्यन्ति - अवगणयिष्यन्ति, खिंसिष्यन्ति - लोकसमक्षं कुत्साविषयीकरिष्यन्ति, निन्दिष्यन्ति - जात्यायुद्घाटनतो जगुप्सागोचरीविधास्यन्ति, गर्हिष्यन्ते - दोषोद्घाटनेन न्यक्कारपात्रीकरिष्यन्ति, एवंकरणेन पुरोहितप्रमुखानां सभोपस्थितानां जनानां हासं जनिष्यन्ति । १. ग - दुरहियपामोक्खाणं । त - दुट्ठहिययामुक्खाणं ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112