Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 49
________________ वर्गचूलिका तदा योग्यावसरे, तेषां गुरूणां पुरतः समक्षम्, कृताञ्जलिः स मुनिः पृच्छति - स्वजिज्ञासां शब्ददेहमर्पयन् पर्यनुयुङ्क्ते ॥१२॥ — इत्थ पुच्छा भयवं ! ते दुवीसगा गोट्ठिल्लपुरिसा अहम्मिआ अकालं कालधम्मेण पत्ता कहिं उववन्ना ? कत्थई वा जोणीमंडले कम्मणा परिभामिज्जिसंति ? ते दुवीसगा किं सुलहबोहिवत्तिणो उयाहु दुल्लहबोहिवत्तिणो त्ति ? पसीय मम संसयं विहाडेउं । - अत्र पृच्छा भगवन् ! ते द्वाविंशतिरधार्मिका गोष्ठीमन्तः पुरुषा अकालं कालधर्मेण मृत्युना परलोकं प्राप्ताः, ते कुत्रोपपन्ना: ? - - प्रश्नान्तरमाह – ते च स्वकीयेनाशुभेन कर्मणा कस्मिन् वा पृथ्वीकायादिसत्के योनिमण्डले जीवोद्भवस्थानसमूहे, परिभ्रमिष्यन्ति ? किञ्च ते द्वाविंशतिः पुरुषाः किं सुलभबोधिवर्त्तिनः उतापि दुर्लभबोधिवर्त्तिनः वा ? भवान्तरे सुप्रापसम्यक्त्वास्तद्विपरीता वेत्याशयः इति प्रश्नपरिसमाप्तौ ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112