Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 50
________________ वर्गोपनिषद् इत्यनन्तरोक्तं मम संशयं विघटयितुं प्रसीद । तए णं से जसभद्दे गुरु तुंगियायणस्सगुत्ते तिन्नाणोवगए दिट्ठिवायंतभावियत्थकरणे सूओवओगं पउंजमाणे जेसिं दुवीसगोहिल्लाणं पुरिसाणं गई उववायं कम्मेणं जोणिमंडलपरिभमणबोहिदुल्लहं नाउण तं अग्गिदत्तसीसं एवं वयासी । ततोऽनन्तरं तुङ्गीकायनगोत्रस्त्रिज्ञानोपगतः मतिश्रुतावधिलक्षणज्ञानत्रयविभूषितः, द्वादशमाङ्गपर्यन्तोऽर्थस्तदनुरूपक्रिया च भाविता येन सः - दृष्टिवादान्तभावितार्थकरणः-सम्पूर्णद्वादशाङ्गीभावनाज्ञानपरिणतिसनाथः, स यशोभद्रो गुरुः श्रुतोपयोगं प्रयुञ्जानः तेषां द्वाविंशतिगोष्ठीमतां पुरुषाणां गतिम् - प्रेत्यभवम्, उपपातम् - पारलौकिकस्थानविशेषम्, कर्मणा - साधुप्रद्वेषोपार्जितसङ्क्लिष्टमोहनीयादिकर्मानुभावेन योनिमण्डलपरिभ्रमणबोधिदुर्लभं च ज्ञात्वा, भावप्रधानत्वानिर्देशस्य बोधिदुर्लभतां विज्ञायेत्यर्थः, तमग्निदत्तशिष्यमेवमवादीत् । यदवादीत्तदेवाह १. च - गइ । २. ग.छ - ०म्मणे । ३. ख.ग.च.छ - ताउ० ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112