Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१८
वर्गचूलिका ततोऽप्यन्तर्मुहर्ताऽऽयुषा द्वाविंशतित्रीन्द्रिया विपन्नाः सन्तस्तस्मिन्नेव पुरीषे चतुरिन्द्रिया भविष्यन्ति ।
एवञ्च - उक्तप्रकारेण, णम् - वाक्यालङ्कारे, तस्या कामलताया उच्चारः शकृत्, प्रश्रवणम् - मेहः, श्लेष्मा - कफः, जल्ल इति शरीरमलः, शिवाणः - नासिकामलः, वान्तम् - वमनेनोगिलितो विकृताऽऽहारः, पित्तम् - मायुः, एतेषु सप्तवारम् - सप्तकृत्वः, यथाक्रमम् - उच्चाराद्याश्रयक्रमानुसारेण, विकलेन्द्रियत्वम् - द्वीन्द्रियत्रीन्द्रिय - चतुरिन्द्रियत्वम्, प्राप्स्यन्ति - स्वकर्मपरतन्त्रतया लप्स्यन्ते । इत्थमेकोनत्रिंशद्भववक्तव्यता कथिता ।
तओ पुणो अग्गिदत्ता ! ते दुवीसगोट्ठिलपुरिसा तीसइमे भवे *तीसे गणियाए गेहे सोए गहनिद्धमणे मंडुका समुच्छिस्संति ।
अग्निदत्त ! ततः पुनस्ते द्वाविंशतिगोष्ठीमत्पुरुषास्त्रिशत्तमे भवे तस्याः कामलताया गणिकाया गेहे-निवासे, स्रोतसि - अशुचिजलनिर्गमे, एतदेव रुफुटतरमाह - गृहनिर्धमने - क्षाले, खाल इति देशप्रसिद्धे, मण्डूकाः सम्मूच्छिष्यन्ति, सम्मूच्छिमदर्दूरत्वेनोत्पत्स्यन्त इत्यर्थः । १. ग-०समे । ★ एतच्चिह्नान्तर्गतः पाठः त-प्रतौ नास्ति । २. द - सोए गहनिद्धमणे। ड-सोयगहणनिद्धमणे ।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112