Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
SOCIRCTRICISHOCIAL
रधिकसंभवे धादियोजनेनातिचारः २ रूप्यं रजतं सुवर्ण कनकमेतयोः पत्न्यादिभ्यः प्रदानेन ३ कुपितं स्थालकचोलकादि स्थूलत्वादिविधापनेन ४ द्विपदं (गन्त्री)दास्यादि, चतुष्पदं गवावादि, तत्र द्विपदचतुष्पदगर्भापणनेनेति,
शेपं प्राग्वत् ॥५॥ अत्र व्रते क्षेमादित्यधरणयोः कथाsil रम्यमस्ति महाराष्ट्रेवरिष्टपुरपत्तनम् । तत्र त्रिलोचनो राजा, बभूव भुवि विश्रुतः ॥१॥ क्षेमादित्याभिधस्तस्य, प्रधानपुरुषोऽभवत् । वसुन्धरा प्रिया तस्य, पुत्रश्च धरणाभिधः ॥२॥ क्षेमादित्योऽन्यदाङ्कस्थधरणः खगृहाङ्गणे । भीमपि वीक्ष्य नत्वोचे, किमकार्षीः प्रभो ! ह्यदः ? ॥३॥ वक्ष्यन्त्येतन्ममाचार्या, अत्रोद्याने स्थितास्तव । इत्युक्त्वा भक्तमादाय, भीमर्षिनिर्ययौ गृहात् ॥४॥ गत्वोद्यानवने मन्त्री, स याम्यमथुरेश्वरान् । पञ्चापि पञ्चधाचार-रतान्। भक्त्या नमोऽकरोत् ॥५॥ तेषु ज्येष्ठमुवाचैवं, विनयेन कृताञ्जलिः । युष्माभिस्तादृशी सम्पत् , तत्यजे केन हेतुना ? ॥६॥ धर्माचार्यो बभावं, दग्धा द्वीपायनर्पिणा। पुरी द्वारवती तस्या, निर्गतौ रामकेशवौ ॥ ७ ॥ तौ पाण्डुमथुरां यान्तौ, कौशाम्ब्यरण्यमध्यतः । हते जराकुमारेण, हरौ रामोऽगृहीत्तपः ॥ ८॥ ज्ञात्वेति यादवध्वंसमस्माभिश्चिन्तितं ततः । विद्युत्संपातसंकाशां, धिग् लक्ष्मी क्षणभङ्गुराम् ॥९॥ प्रव्रज्या शिश्रियेऽस्माभिस्ततो भवविरागतः। क्षेमादित्य ! त्वमप्यास्थां, मार्थेऽत्यर्थ कृथा वृथा ॥१०॥ क्षेमादित्यस्ततो भूयो, गुरून्नत्वा व्यजिज्ञपत् । परिग्रहप्रमाणं मे, तत्प्रसद्य प्रयच्छत ॥११॥ गुरुर्जगाद भोः ! पूर्व, सप्रपञ्चमिदं शृणु । नवधा धनधान्यादिर्भवेत्तावत्परि-२
REACHESEACHERENCEURCELECTURES
JanEdur१२.
For Private & Personal Use Only
Chainelibrary.org
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204