Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 167
________________ SACROSSASSANSARICORIES त्रिविधं त्रिप्रकारं, दुष्प्रणिधानं कृतसामायिकस्य मनोवाकायानां दुष्प्रयुक्तता । तत्र मनसा गृहादिव्यापारचिन्तनम १ वाचा सावद्यकर्कशादिभाषणं २ कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निपदनादिविधानं ३ अनवस्थानं सामायिककालावधेरपूरणं, यथाकथञ्चिद्वानादृतस्य करणं, सामायिकं हि किल क्षणिकेन कर्त्तव्यं आह चूर्णिकृत् "जाहे खणिओ ताहे करेइ तो से न भजइत्ति" ४ तथा स्मृतिविहीनं निद्रादिप्रमादाच्छून्यतयानुष्ठितं ५ एतानाश्रित्य सामायिके प्रथमे शिक्षात्रते, वितथाकृते सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति । आह-अत्र द्विविधं त्रिविधेन प्रत्याख्याने मनसो रोदुमशक्यत्वात् दुष्प्रणिधानसंभवे सामायिकाभाव एव, प्रत्याख्यानभङ्गजं च प्रायश्चित्तं स्यात् , अतस्तत्प्रतिपत्तरप्रतिपत्तिर्गरीयसी, नैवं, अत्र च मनसा करोमीत्यादि षट् प्रत्याख्यानानि । तथानाभोगादिनकतरभङ्गेऽपि शेषसद्भावान्न सर्वथा सामायिकाभावः । मनोदुष्प्रणिधाने च मिथ्यादुष्कृतेनैव शुद्धिभणनान्न तदप्रतिपत्तिः सुन्दरेति । यच्चाविधिकृताद्वरमकृतमिति वचनं, तदप्यसमीचीनं, यदुक्तम्"अविहिकया वरमकयं, असूयवयणं भणंति समयण्णू । पायच्छित्तं जम्हा, अकए गरुयं कए लहुयं ॥३॥" अत्र मेघरथकथेयम्-- रम्यमस्ति कलिङ्गेषु, पुरं नरपुराभिधम् । राजा जयरथस्तत्र, बभूव परमार्हतः ॥१॥ विजयेति प्रिया तस्य, तयोर्मेघरथः सुतः। चण्डमार्तण्डवत्प्रौढ-प्रतापाक्रान्त विष्टपः ॥२॥ नृपोऽन्यदा निजावास-मध्यवर्तिजिनौकसि । Join Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204