Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
वृत्तिः
18| यया(था) सज्जीभविष्यथ ॥४६॥ श्रेष्ट्युवाच कृतं वैद्यैर्देहि धर्मोषधं मम। ततो निर्यामयामास, श्वशुरं पवनञ्जयः॥४७॥8
तत्र स्थित्वा कियत्कालमासन्नां तां त्रयोदशीम्। ज्ञात्वा पत्न्यै खवृत्तान्तं, निवेद्य तदनुज्ञया ॥४८॥ प्रभूतं पण्य॥८२॥
मादाय, प्राचालीत् खपुरं प्रति । आर्जयत्स्वर्णकोट्यौ द्वे, कुर्वाणः क्रयविक्रयम् ॥४९॥ विंशतिस्वर्णकोटीशं. जयवमनृपोऽथ तम्। पुरे प्रवेशयामास, महोत्सवपुरस्सरम् ॥५०॥ तस्मिन्महोत्सवे वाञ्छातिक्रान्तं पवनञ्जयः।अर्थिभ्यः खजनेभ्यश्च, दानमष्ट दिनान्यदात् ।।११॥ प्राभृतं भूरि ढौकित्वा, प्रणनाम महीपतिम् । तेनापि स्थापितः श्रेष्ठिपदे दें सप्रणयं तु सः॥५२॥ गीयते स्तूयते चासौ, सकलेऽपि पुरे ततः। पूर्लोकैस्तद्गुणग्रामरामणीयकरञ्जितैः ॥ ५३॥ तदा च सागरो गत्वा, विदेशे सोऽपि तत्र च । सहस्रान्पञ्च कृच्छ्रेण, दीनाराणामुपार्जयत् ॥५४॥ दध्यौ धिग धिक चिरेणापि, धनमत्यल्पमर्जितम् । तथापि तत्र गन्तव्यमासन्ना यत्रयोदशी ॥५५॥ ततः सहायानादाय, कमे-15 णाक्रम्य मेदिनीम् । सुष्वाप खपुरासन्नग्रामे श्रान्तो दिनात्यये ॥ ५६ ॥ सहायास्तेऽथ दीनारान्, लात्वा नेशुस्ततो द्रुतम् । प्रबुद्धः सागरोऽथैवं, विषण्णात्मा व्यचिन्तयत् ॥ ५७ ॥ यथा गतस्तथाऽऽयातो, यथाजातोऽधुना ध्रुवम् । दर्शयिष्यामि लोकानां, कथमास्यं खकं हहा ?॥ ५८ ॥ कदाचिन्मे प्रतिस्पर्धी, मन्ये सोऽप्येवमागतः । आत्मानं | स्थापयित्वेति, तदैवागाद् गृहं निजम् ॥५९॥ सर्व वृत्तान्तमापृच्छत्, पितृभ्यामभ्यधायि सः । इत्थमित्थमिहायातः, पुण्यात्मा पवनञ्जयः ॥ ६०॥ तदा कदाग्रहग्रस्तो, वचः कस्यापि न व्यधात् । ततोऽभूस्त्वं प्रयासायोपहासायैव
॥८२॥
Jain Educ
a IDI
tional
For Private
Personal Use Only
toww.jainelibrary.org
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204