Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र. ॥९५॥
Jain Education
निष्पत्तौ मृदो याग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणं । एवमिहापि जीवयोग्यतायां सत्यामपि तथाप्रत्यूहव्यूहनिराकरणेन देवा अपि यक्षाम्वाप्रभृतयः समाधिबोधिदाने समर्था भवन्ति मेता - र्यादेरिवेत्यतो न निरर्थिका तत्प्रार्थनेति ॥ ४७ ॥ अधुना येषु स्थानेषु प्रतिक्रमणं भवति, तदुपदर्शनायाह
पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिकमणं । अस्सद्दहणे य तहा, विवरीयपरूवणाए य ॥ ४८ ॥ ॥ प्रतिषिद्धानां सम्यक्त्वाणुत्रतादिमालिन्यहेतुशङ्कावधादीनां करणे, कृत्यानां चाङ्गीकृतपूजादिनियमानामकरणे, अश्रद्धाने च निगोदादिविचारविप्रत्यये, तथा विपरीतप्ररूपणे उन्मार्गदेशनायां इयं हि चतुरन्तादभ्रभवभ्रमणे हेतुर्मरीच्यादेखि, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्म्मकथनेऽधिका| रोऽस्ति ! अस्तीति ब्रूमः, गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य कथने को नाम नाधिकारः “पढइ सुणइ गुणेइ अ, जणस्स धम्मं परिकहेइ" इत्यादिवचनात् । तथा च चूर्णिः - सो जिणदाससावओ अठ्ठ मिचउदसीसुं उपवास केरइ, पुत्थयं च वाएइ" इत्यादि ॥ ४८ ॥ साम्प्रतमनादिसंसारसागरावर्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात्तत्क्षमणायाह
खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूपसु, वेरं मज्झ न केाई ॥ ४९ ॥
For Private & Personal Use Only
वृत्तिः
॥९५॥
jainelibrary.org
Loading... Page Navigation 1 ... 200 201 202 203 204