Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ वोलंतु मे दियहा ॥ ४६॥ | कण्ठ्या । नवरं कथया तन्नामोचारणतद्गुणोत्कीर्तनतचरितवर्णनादिकया वचनपद्धत्या, वोलंतुत्ति ब्रजन्तु ॥४६॥ सम्प्रति मङ्गलपूर्वकं (विकां) जन्मान्तरेऽपि समाधियोध्याशंसामाह-- | मम मंगलमरहंता, सिद्धा साहू सुयं च धम्मोय। सम्मदिट्टी देवा, दिंतु समाहिं च बोहिं च ॥४७॥ ___ मम मङ्गलमहन्तः सिद्धाः साधवः श्रुतं चाङ्गोपाङ्गाद्यागमः, धर्मश्चारित्रात्मकः, चशब्दालोकोत्तमाश्च शरणं चैते है। इति द्रष्टव्यं, अत्र च धर्मान्तर्गतत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थम तथा सम्यग्दृष्टयोऽर्हत्पाक्षिका देवा भवनवास्याद्याः, ददतु प्रयच्छन्तु, समाधि चित्तस्वास्थ्यं, बोधिं च प्रेत्यजिनधर्मप्राप्तिरूपाम्, आह-ते देवा समाधिदाने किं समर्था नवा?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य चैयर्थ्यप्रसङ्गः, यदि समर्थास्तर्हि सर्वभव्येभ्यः किं न प्रयच्छन्ति ! अथैवं मन्यते योग्यानामेव ते समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवादादिवदेकान्तवादिनः किंतु जिनमतानुयायिनः । तच्च सर्वनयसमूहात्मकस्साद्वादमुद्रानतिभेदि, सामग्री वै जनिकेतिवचनात् । यथा घट
Jain Education
a
l
For Private & Personel Use Only
ekjainelibrary.org
Loading... Page Navigation 1 ... 199 200 201 202 203 204