Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Educato
क्षमयामि सर्वजीवानप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमान्मर्पयामि, सर्वजीवाः क्षाम्यन्तु मे दुश्चे (ष्टचे) ष्टितम् अत्र हेतुमाह - मैत्री मे सर्वभूतेषु वैरं मम न केनचित् कोऽर्थः ? मोक्षलाभ हेतुभिस्तान् सर्वान् | स्वशक्त्या लम्भयामि नैव तद्विघ्नकृतामपि विघाते वर्त्तेऽहमिति, वैरं हि भूरिभवपरम्परानुयायि, केषामिव ? कमठमरुभूत्यादीनामिवेति ॥ ४९ ॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह
।
एवमहं आलोइय, निंदिय गरहिय दुगंछियं सम्मं । तिविहेण पडिकंतो, वंदामि जिणे चउवीसं ॥५०॥ कण्ठ्या | नवरं दुगुछियं सम्मति जुगुप्सितत्वात्सम्यगिति ॥ ५० ॥
इत्येवमल्परुचिसत्त्वविबोधनाय, श्राद्धप्रतिक्रमणसूत्रविवृत्तिरेषा ।
किञ्चिन्मया प्रकटिताsन तु विस्तरार्थो, ज्ञेयो वृहद्विवृतितो वरचूर्णितश्च ॥ १ ॥ इति श्रावकानुष्ठानविधिः ॥ ( ग्रन्थाग्रम् २७२०)॥ इत्याचार्यप्रवरश्रीमत्तपागणत्रिपथगाप्रवाहहिमवत्सानुप्रभश्रीजगच्चन्द्रचरणसरोरुहचञ्चरीकश्रीमद्देवेन्द्रसूरिप्रवरप्रविरचिता श्रावकानुष्ठानविधि
मयी वन्दारुवृत्तिसंज्ञिका प्रतिक्रमणवृत्तिः ।
॥ समाप्तेयं श्रीवन्दारुवृत्तिः ॥
national
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 201 202 203 204