Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Educa
प्रत्याख्यानं देशत आहारपौषधः, सर्वतस्तु चतुर्विधाहार वर्जनरूपः, एवं शरीरसत्कारब्रह्मचर्याव्यापारपौषधा अपि वाच्याः ४ ॥ पौषधग्रहणविधिस्तु पौषधप्रकरणादवसेयः, अत्र चातिचारप्रतिक्रमणायाह
संथारुच्चारविहीपमाय तह चेव भोयणाभोए । पोसहविहिविवरीए, तइए सिक्खावए निंदे ॥ २९॥
'संथारुच्चारविहीपमायत्ति' संस्तारकः कम्बलादिमयः, उपलक्षणत्वाच्छय्या च उच्चारप्रश्रवणभूमेर्द्वादश द्वादश विण्मूत्रस्थण्डिलानि एषां विधेः प्रमादः कोऽर्थः ! - शय्यायां संस्तार के च चक्षुषा अप्रत्युपेक्षित दुष्प्रत्युपेक्षिते उपवेशनादि कुर्वतः प्रथमोऽतिचारः १ एवं रजोहरणादिना अप्रमार्जितदुष्प्रमार्जिते द्वितीयः २ एवमुच्चारादिभूमीना| मपि द्वावतिचारौ ३-४ अतः प्रोच्यते तथैव भवत्यनाभोगेऽनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४ तथा पौषधविधिविपरीतः पौषधविधेश्वतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा कृतपौषधस्य क्षुधाद्यार्त्तस्य पौषधे पूर्णे वः स्वार्थमाहारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतः पञ्चमोऽतिचारः ५ अनुष्ठेयतया पौषधविधिपरीत्ये, | पाठान्तरं वा 'भोयणाभोयत्ति' भोजने आहारे, उपलक्षणत्वाद्देहसत्कारादौ, आभोग उपयोगः, कदा पौषधं पूर्ण भविष्यति येनाहं भोक्ष्ये इत्यादि, तत्परतेति पञ्चमः । एवं च पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये (वा) सति 'तइए' इत्यादि प्राग्वत्, अत्र ब्रह्मसेनज्ञातमिदम् —
mational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204