SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. वृत्तिः 18| यया(था) सज्जीभविष्यथ ॥४६॥ श्रेष्ट्युवाच कृतं वैद्यैर्देहि धर्मोषधं मम। ततो निर्यामयामास, श्वशुरं पवनञ्जयः॥४७॥8 तत्र स्थित्वा कियत्कालमासन्नां तां त्रयोदशीम्। ज्ञात्वा पत्न्यै खवृत्तान्तं, निवेद्य तदनुज्ञया ॥४८॥ प्रभूतं पण्य॥८२॥ मादाय, प्राचालीत् खपुरं प्रति । आर्जयत्स्वर्णकोट्यौ द्वे, कुर्वाणः क्रयविक्रयम् ॥४९॥ विंशतिस्वर्णकोटीशं. जयवमनृपोऽथ तम्। पुरे प्रवेशयामास, महोत्सवपुरस्सरम् ॥५०॥ तस्मिन्महोत्सवे वाञ्छातिक्रान्तं पवनञ्जयः।अर्थिभ्यः खजनेभ्यश्च, दानमष्ट दिनान्यदात् ।।११॥ प्राभृतं भूरि ढौकित्वा, प्रणनाम महीपतिम् । तेनापि स्थापितः श्रेष्ठिपदे दें सप्रणयं तु सः॥५२॥ गीयते स्तूयते चासौ, सकलेऽपि पुरे ततः। पूर्लोकैस्तद्गुणग्रामरामणीयकरञ्जितैः ॥ ५३॥ तदा च सागरो गत्वा, विदेशे सोऽपि तत्र च । सहस्रान्पञ्च कृच्छ्रेण, दीनाराणामुपार्जयत् ॥५४॥ दध्यौ धिग धिक चिरेणापि, धनमत्यल्पमर्जितम् । तथापि तत्र गन्तव्यमासन्ना यत्रयोदशी ॥५५॥ ततः सहायानादाय, कमे-15 णाक्रम्य मेदिनीम् । सुष्वाप खपुरासन्नग्रामे श्रान्तो दिनात्यये ॥ ५६ ॥ सहायास्तेऽथ दीनारान्, लात्वा नेशुस्ततो द्रुतम् । प्रबुद्धः सागरोऽथैवं, विषण्णात्मा व्यचिन्तयत् ॥ ५७ ॥ यथा गतस्तथाऽऽयातो, यथाजातोऽधुना ध्रुवम् । दर्शयिष्यामि लोकानां, कथमास्यं खकं हहा ?॥ ५८ ॥ कदाचिन्मे प्रतिस्पर्धी, मन्ये सोऽप्येवमागतः । आत्मानं | स्थापयित्वेति, तदैवागाद् गृहं निजम् ॥५९॥ सर्व वृत्तान्तमापृच्छत्, पितृभ्यामभ्यधायि सः । इत्थमित्थमिहायातः, पुण्यात्मा पवनञ्जयः ॥ ६०॥ तदा कदाग्रहग्रस्तो, वचः कस्यापि न व्यधात् । ततोऽभूस्त्वं प्रयासायोपहासायैव ॥८२॥ Jain Educ a IDI tional For Private Personal Use Only toww.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy