________________
CAMACREAUCROSAGARLCALCOCOCARDCORE
क्षिणापथसम्मुखम् ॥३१॥ सागरोऽपि तदोत्तीर्य, स्वरथादुत्तरापथम्। शकुनैर्वार्यमाणोऽपि, प्रतस्थे पवनेग्रया॥३२॥ | शकुनःप्रेर्यमाणस्तु, सोत्साहः पवनञ्जयः। नानाद्धतयुतां पृथ्वीमाचक्राम शनैः शनैः, ॥३३॥ काञ्चीपुर्यामितश्चा|भूदिभ्यो लक्ष्मीधराभिधः । पुत्री मनोरमा तस्य, जगत्यपि मनोरमा ॥३४॥ सोऽन्यदाऽपृच्छदाहूय, मौहूर्त ब्रह्मना-14 |मकम् । कियन्मे जीवितं ! भावी, श्रियाः पुत्र्याश्च कः पतिः? ॥३५॥ सोऽप्युवाच दिनादस्मात्पण्मासान् जीवितं | तव । सप्ताहानि शिरोऽर्तिश्च, तीव्रा त्वन्ते भविष्यति ॥३६॥ अस्याः पुत्र्याश्च लक्ष्म्याश्च, भावी वैदेशिकः पतिः। |श्रेष्ट्यूचे स कथं ज्ञेयस्ततो नैमित्तिकोऽवदत् ॥ ३७ ॥ पुण्डरीकाभिधं तीर्थ, पञ्चभिर्योजनैरितः । तत्रास्ति पुण्डरी-18| काख्यो, यक्षस्तत्र गतो भवान् ॥ ३८ ॥ यात्रां वीक्ष्य निवृत्तः सन् , प्रस्खलन्येन रक्ष्यसे । श्रेष्ठिपुत्रः स विज्ञेयो, वरोऽस्याः पवनञ्जयः ॥ ३९ ॥ श्रेष्ठी सत्कृत्य मौहूर्त, विसृज्य च ततः स्वयम्। जगाम तत्र वासाय, तीर्थ सर्वश्रि-IN यान्वितः॥४०॥ यात्रां दृष्ट्वाथ निर्यान्तं, पतन्तं पवनञ्जयः। तत्रागतस्तदा वीक्ष्य, दक्षमुख्यो ररक्ष तम् ॥४१॥ | श्रेष्ठ्यथोचे तवायुष्मन् , स्वागतं पवनञ्जय !। इत्युक्त्वा तं गृहे नीत्वा, भोजयित्वा च भक्तितः॥४२॥ नैमित्तिकं वचः प्रोच्य, पुत्री तेनोदवाहयत् । अन्यदा श्रेष्ठिनस्तस्य, शिरोऽतिरभवद् भृशम् ॥ ४३ ॥ ततोऽन्तसमयं ज्ञात्वा, श्रेष्ठ्यचे पवनजय !। वत्साष्टादशकोटीस्त्वं, सुवर्णस्य गृहाण मे ॥४४॥ अस्या मनोरमायाश्च, वर्तितव्यं त्वया तथा। यथा मां| न स्मरत्येषा, पराभवविदुषी ॥४५॥ प्रतिपद्यति सोऽप्यूचे, मा भैप्टाऽस्याः शिरोऽर्तितः। तातपादांस्तथाऽऽधाये,
CROREOGRESCUESCORCHECK
Jain Educa
t ional
For Private & Personel Use Only
Milioww.jainelibrary.org