________________
ADSAMACROSHANGAROO
केवलम्॥६॥इत्युक्तोऽतिशुचाक्रान्तः, पुनस्ताभ्यामभाणि सः। इदानीमपि मा कार्विषादमुदितं त्व(ह्य)दः॥२॥8 मानभ्रंशोऽपि तस्य स्याद्यस्य मानोन्नतिः क्षितौ । पादयोर्निगडानि स्युनूपुराणि तयोस्तथा ॥६३॥ इन्दोः क्षयो न त ताराणां, तत्र श्रीस्त्वितरेषु न । महतां वृद्धिहानी हि, (नीचा) दीना एव सदेतरे॥६॥ एवं सन्धीरितस्ताभ्यां, खगे-2 हेऽनाययत्ततः। तस्यामेव तमखिन्यां, सागरोऽथ निजं रथम् ॥६५॥ यात्रादिनेऽपि सर्वत्रास्खलितः पवनञ्जयः। रथस्थः श्लाघ्यमानोऽसौ, ददद्दानमबम्भ्रमीत् ॥६६॥ सागरोऽपीjया दध्यौ, कदामुं पवनञ्जयम् । हनिष्यामि खह-दू स्तेन, ममापनाजनाकरम् ॥६७॥ अन्यदा तु चतुर्मासे, धन्यः श्रेष्ठी धनञ्जयः। गृहान्तः पौषधं चक्रे, प्रमादैधोधनञ्जयः॥ ६८ ॥ दिनं स्थित्वा बहिर्व्यग्रः, सन्ध्यायां पवनञ्जयः । पितुः पार्थमगात्तेनानुशिष्टः शिष्टभाषया ॥६९॥ वत्स ! पर्वदिनेऽपि त्वं, कुरुषे पोषधादि न । तथाप्यनर्थरक्षाकृत् , कुरु देशावकाशिकम् ॥७०॥ सोऽवादीत्कीदृशं | ह्येतत् , श्रेष्ठयचे दिग्व्रतं हि यत्। तस्य संक्षेपणं सर्वत्रतानां वाप्यदो व्रतम् ॥ ७१॥ प्रमादानुगतो जीवो, यावतस्यादनियन्त्रितः। कर्मानुसमयं तावद् , आदत्ते दारुणोदयम् ॥ ७२॥ मान्त्रिकोऽङ्गगतं यद्वद्धत्ते दंशे विषं क्षणात् । अस्मिन्नङ्गीकृते तद्वजीवः कर्माणि संक्षिपेत् ॥७३॥ आनयनप्रयोगाद्यास्त्याज्याः पञ्चात्र दोषकाः । व्रतम्लानिकृतोऽत्रापि, मानम्लान्यादिहेतवः ॥७४ ॥ इत्याकर्ण्य गृहान्तस्तत् ; प्रपेदे पवनञ्जयः। अथैत्य शेखरस्तत्रोत्सुकोऽवादीदिदं वचः ॥७५॥ नतिष्यति सहस्राक्षः, श्रेष्ठिन्नद्येन्द्रजालिकः । समाह्वयति राजा त्वां, तदेहि पवनञ्जय !॥७६॥
Jain Educat
For Private & Personel Use Only
Elaw.jainelibrary.org