Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 173
________________ LOCALCRECORDCROREOGRESORRECAUSE समृद्धं भरतेऽत्रास्ति, पुरं नन्दिपुराभिधम् । जयवर्मनृपस्तत्र, बभूव विजयास्पदम् ॥१॥ देवी जयावली तस्य, जयलक्ष्मीरिवाङ्गिनी । चतुर्विधधिया युक्तो, मन्त्री च जयसुन्दरः ॥२॥ तत्रैव च पुरे जज्ञे, श्रेष्ठी नाना धनञ्जयः। धर्मेण धर्मिणां धुर्यो, धनेन धनदोपमः ॥ ३॥ सजनीति प्रिया तस्य, सजनानन्ददायिनी । रूपलावण्यसंपन्नस्तत्पुत्रः पवनञ्जयः ॥४॥ गृहकृत्यकरस्तस्य, वयोरूपादिभिः सदृक । विनीतः सर्वकर्माणो, वयस्यः शेखराभिधः ॥५॥ नैमित्तिको नृपं प्रोचे, ज्ञानगर्भाभिधोऽन्यदा। कियन्त्यप्यद्यकल्पेऽत्र, दुनिमित्तानि जज्ञिरे ॥६॥ तत्प्रभावाद्भविप्यन्ति, जनानां भूयसामिह । भूयांसः श्वासकासाद्या, विविधा व्याधयोऽधिकम् ॥ ७ ॥ भूपतिस्तत्र चावादीद्भावि चैतत्कियत् किल। मुहूर्ती प्राह यावद्धि, नाथानत्रयोदशीम् ॥८॥राजा प्रोवाच सा मन्त्रिन् , दूरे तावत्रयोदशी । तन्मे कथय लोकानां, न स्यात्कथमियं व्यथा ?॥९॥ मन्यूचे कार्यतां यात्रा, ततः स्मरनिकेतने । पक्षस्यास्य त्रयोदश्यां, मौहूर्तोऽपीत्यमन्यत ॥१०॥राजा पौरांस्ततो यात्राप्रवृत्त्यर्थमथादिशत् । ततो लोकोऽपि सर्वा, गन्तुं तत्र प्रचक्रमे ॥ ११॥ प्रतस्थे रथमारुह्य, श्रेष्ठिसूः पवनञ्जयः। यात्रां निरीक्षितुं मित्रपुत्रादिपरिवारितः॥१२॥ स ययौ गोपुरं यावत् , पुरस्तस्य रथस्य तु। दिन्नश्रेष्ठिसुतस्तावत्सागरोऽस्थाद्रथस्थितः ॥१३॥ खसारथिमथोवाच, साक्षेपं पवनञ्जयः । हहो कोऽयं ? न यः खीयं, परावर्त्तयते रथम् ॥१४॥ श्रुत्वेति सागरः प्रोचे, मद्रथोऽपास्यते कथम् । मत्तोऽधिकोऽसि किं? न त्वं, मत्तोऽसि पवनञ्जय !॥१५॥ एवं चाखर्वगर्वेण, तयोर्विवदमानयोः। लोक SHOCCASSOCROCOCCAM Jain Education For Private Personal Use Only inelibrary.org .

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204