Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चिन्ता-पध्यानमेतन्निगदन्ति तज्ज्ञाः।" पापोपदेशो यथा-"हुतभुजमिह देहि क्षेत्रभागे हयानां, कुरु वृषणविनाशं मुश्च सस्येषु कुल्याम् । दमय वृषभवृन्द, घातय प्रत्यनीकानिति दिशति विवेकी को हि पापोपदेशम् ? ॥ १॥"18 |हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात्साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह| सत्थग्गिमुसलजंतग (ग्रन्थाग्रम् २१०० ) तणकट्टेमंतमूलभेसज्जे । दिन्ने दवाविए वा, पडिक्कमे | 2 देसि सव्वं ॥२४॥
पहाणुव्वदृणवण्णग-विलेवणे सद्दरूवरसगंधे । वत्थासणआभरणे, पडिक्कमे देसि सव्वं ॥२५॥ | शस्त्राग्निमुशलानि प्रतीतानि, यन्त्रकं गन्त्र्यादि, तृणं व्रणकृमिशोधनं बहुकरी वा, काष्ठमरघट्टयष्टयादि, मन्त्री विषापहारादि, मूलं नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, भैषजं सांयोगिकं द्रव्यमुच्चा|टनादिहेतुः । एतच्छस्त्रादि प्रभूतभूतसंघातहेतुभूतं दाक्षिण्याद्यभावेऽन्येभ्यो यद्दत्तं दापितं वा, तस्य पडिक्कमे इत्यादि प्रागवत् । स्नानमभ्यङ्गपूर्वकं अङ्गप्रक्षालनं, तचायतनया त्रससंसक्तभूम्यां संपातिमसत्त्वाकुले वा काले वस्त्रापूतजलेन यत्कृतं, उद्वर्त्तनं संसक्तचूर्णादिभिः, उद्वर्त्तनिकाश्च न भस्मनि क्षिप्ताः, ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्ष्यन्ते । पादैर्वा मृद्यन्ते, वर्णकः कस्तूरिकादिः, विलेपनं कुङ्कुमचन्दनादि, एतस्मिंश्च सम्पातिमसत्त्वाद्ययतनया कृते, शब्दो वेणुवीणादीनां कौतुकेन श्रुतः, शब्दो वा निश्युच्चैःस्वरेण कृतस्तत्र 'उज्जोअणवेणिए' इत्याद्यधिकरणं यदभूत् , रूपाणि
withe ASEASOS ROSAS
दि प्रभूतभूतलन, तचायतन भस्मान एतस्मिंच
Jain Education
For Private
Personal Use Only
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204