SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ SOCIRCTRICISHOCIAL रधिकसंभवे धादियोजनेनातिचारः २ रूप्यं रजतं सुवर्ण कनकमेतयोः पत्न्यादिभ्यः प्रदानेन ३ कुपितं स्थालकचोलकादि स्थूलत्वादिविधापनेन ४ द्विपदं (गन्त्री)दास्यादि, चतुष्पदं गवावादि, तत्र द्विपदचतुष्पदगर्भापणनेनेति, शेपं प्राग्वत् ॥५॥ अत्र व्रते क्षेमादित्यधरणयोः कथाsil रम्यमस्ति महाराष्ट्रेवरिष्टपुरपत्तनम् । तत्र त्रिलोचनो राजा, बभूव भुवि विश्रुतः ॥१॥ क्षेमादित्याभिधस्तस्य, प्रधानपुरुषोऽभवत् । वसुन्धरा प्रिया तस्य, पुत्रश्च धरणाभिधः ॥२॥ क्षेमादित्योऽन्यदाङ्कस्थधरणः खगृहाङ्गणे । भीमपि वीक्ष्य नत्वोचे, किमकार्षीः प्रभो ! ह्यदः ? ॥३॥ वक्ष्यन्त्येतन्ममाचार्या, अत्रोद्याने स्थितास्तव । इत्युक्त्वा भक्तमादाय, भीमर्षिनिर्ययौ गृहात् ॥४॥ गत्वोद्यानवने मन्त्री, स याम्यमथुरेश्वरान् । पञ्चापि पञ्चधाचार-रतान्। भक्त्या नमोऽकरोत् ॥५॥ तेषु ज्येष्ठमुवाचैवं, विनयेन कृताञ्जलिः । युष्माभिस्तादृशी सम्पत् , तत्यजे केन हेतुना ? ॥६॥ धर्माचार्यो बभावं, दग्धा द्वीपायनर्पिणा। पुरी द्वारवती तस्या, निर्गतौ रामकेशवौ ॥ ७ ॥ तौ पाण्डुमथुरां यान्तौ, कौशाम्ब्यरण्यमध्यतः । हते जराकुमारेण, हरौ रामोऽगृहीत्तपः ॥ ८॥ ज्ञात्वेति यादवध्वंसमस्माभिश्चिन्तितं ततः । विद्युत्संपातसंकाशां, धिग् लक्ष्मी क्षणभङ्गुराम् ॥९॥ प्रव्रज्या शिश्रियेऽस्माभिस्ततो भवविरागतः। क्षेमादित्य ! त्वमप्यास्थां, मार्थेऽत्यर्थ कृथा वृथा ॥१०॥ क्षेमादित्यस्ततो भूयो, गुरून्नत्वा व्यजिज्ञपत् । परिग्रहप्रमाणं मे, तत्प्रसद्य प्रयच्छत ॥११॥ गुरुर्जगाद भोः ! पूर्व, सप्रपञ्चमिदं शृणु । नवधा धनधान्यादिर्भवेत्तावत्परि-२ REACHESEACHERENCEURCELECTURES JanEdur१२. For Private & Personal Use Only Chainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy