SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. 110311 ॥६७॥ Jain Education | ग्रहः ॥ १२ ॥ प्रमाणमिच्छया तस्य, कार्य द्वैधं त्रिधादिना । फलमस्य श्रियः सर्वाः, खर्मनुष्यादिकाः खलु ॥ १३ ॥ धनधान्यप्रमाणातिक्रमाद्याः पञ्च दोषकाः । वर्ज्या निर्व्याजपुण्यार्थे, तीव्रलोभोदयोद्भवाः ॥ १४ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये । भवे भवे भवेत्तेषां नैःखं प्रेष्यत्वमेव च ॥ १५ ॥ इत्याचार्यवचः श्रुत्वा, क्षेमादित्योऽग्रहीत्ततः । पञ्चमाणुत्रतं सम्यक्, सम्यक्त्वादानपूर्वकम् ॥ १६ ॥ मुनीन्नत्वा ययौ गेहे, मुनयस्ते तु भूतले । विहृत्य पुण्डरीकाद्रौ, शिश्रियुर्निर्वृतिश्रियम् ॥ १७ ॥ धरणो यौवनस्थोऽथ, लग्नो द्रव्यमुपार्जितम् । उपाये राजसेवाद्यैरादरेण दिवानिशम् ॥ १८ ॥ ततोऽसौ भणितः पित्रा, किमेवं वत्स ! खिद्यसे ? | अर्थस्यार्थे वृधात्यर्थ, सर्वथानर्थ - वेश्मनः ! ॥ १९ ॥ सोऽवादीत्तात ! निर्द्रव्यः, पुमान् चञ्चापुमानिव । लोकेऽर्किञ्चित्करो यस्मात्पुमर्थो ह्यर्थ एव तत् ॥ १९ ॥ अयोग्योऽयमिति ज्ञात्वा स पित्रोपेक्षितस्ततः । प्रावर्त्तत विशेषेण, द्रव्योपार्जनकर्मसु ॥ २० ॥ अन्यदा पूर्जनै राज्ञे, विज्ञप्तं पुरसंनिधौ । निघ्नन्नस्ति जनं श्रित्वा, पञ्चास्यः पञ्चयोजनीम् ॥ २१ ॥ राज्ञा खं चिक्षिपे चक्षुः सेवकेष्वखि | लेष्वपि । क्षीणोत्साहाः क्षणे तस्मिन्, ते तस्थुर्भूगतेक्षणाः ॥ २२ ॥ नत्वाथ धरणोऽवादीदादेशं देव ! देहि मे । ततस्तस्मै | स्वहस्तेन, बीटकं नृपतिर्ददौ ॥ २३ ॥ सन्नद्य सोऽपि तत्रागात्, कतिचित्पुरुषान्वितः । वनान्तवक्ष्य हर्यक्षं; हक्कया| मास निष्ठुरम् ||२४|| सज्जन्तं तं क्रमं वीक्ष्य: विद्ध्यद्वाणेन चक्षुषोः । तथाप्यभिपतन्तं च शरश्रेण्या जघान सः ॥ २५ ॥ लोकैश्चमत्कृतैस्तत्र, चक्रे जयजयारवः । गत्वा च नृपतेः पार्श्वे, वृत्तान्तोऽयं निवेदितः ॥ २६ ॥ तुष्टेन तेन सच्चक्रे, For Private & Personal Use Only वृत्तिः ॥६७॥ Jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy