________________
वैराग्य
शतकम् ।
॥२२॥
कुणसि ममत्तं धणसय-णविवपमुहेसुऽणंतदुक्खेसु । सिढिलेसि आयरं पुण, अणंतसुक्खंमि मुक्खमि ॥७७॥
गुणविन__ व्याख्या-रे मूढात्मन् ! त्वं 'अनन्तदुःखेषु' अनन्तदुःखकारणेषु, धनस्वजनविभवप्रमुखेषु, धनं-हिरण्यादिः, स्वजनो-18
यीयामात्रादि, विभवो-हस्त्यश्वादिस्तत्प्रभृतिषु 'ममत्वं' ममीकारं करोषि, तथा चोक्तं श्रीआचाराने [लोकविजयाध्ययने प्रथ
व्याख्या। मोद्देशके ] "माया मे पिया मे भाया मे भगिणी मे भजा मे पुत्ता मे धूता मे सुण्हा मे सहिसयणसंगंथसंथुया मे विवितोपकरणपरियट्टणभोयणच्छायणं मे, इच्चत्थं गड्डिए लोए वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगऽट्ठी अट्ठालोभी" [एतट्टीका ]-"मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि च तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येवेति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात्सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि
त्रिःसप्तकृत्वो ब्राह्मणा इति, भ्राता मे, भगिनी निमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवस्तहै द्यथा-चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगतेन कोपानन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीत्यारम्भे प्रवर्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येनैहिकामुष्मिकानपायानवाप्नोति, तद्यथा-जरासन्धो जामातरि कसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदा
॥२२॥
SHARE
Jan Education International
For Private & Personal use only
www.jainelibrary.org