Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
याज्यायै वचनक्रम रचयतः पादौ परिभ्रान्तये, नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं, तत्किं हन्त !! परिश्रमोऽपि निकटीभूयं न सम्पन्नवान् ? ॥८५॥ (शा०)
रक्षाकृते धनलवस्य विमूढचेता, लोकः परं किमपि सन्तनुते प्रयत्नम्।
तल्लक्षकोटिभिरनाप्यमपीदमायुः, कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥८६॥ (वसन्ततिलका) बन्धो! क्रोध! विधेहि किञ्चिदपरं स्वस्याधिवासास्पदं, भ्रातर्मान ! भवानपि प्रचलतु त्वं देवि माये ! ब्रज। हंहो लोभसखे! यथाऽभिलषितं गच्छ द्रुतं वश्यतां, नीतः शान्तरसस्य सम्प्रति लसद्वाचा गुरूणामहम् ॥८७॥ (शा०)
मनो न वैराग्यतरङ्गितं चे-द्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां, मुधा तदा विभ्रमवलिगतानि ॥८८॥
(रामा) विश्वाः कलाः परिचिता यदि तास्ततः किं ?, तप्तं तपो यदि तदुग्रतरं ततः किम् ? ।
कीर्तिः कलङ्कविकला यदि सा ततः कि-मन्तर्विवेककलिका यदि नोल्ललास ॥ ८९॥ (वसन्ततिलका) स्फूर्जल्लोभकरालवत्रकुहरो हुङ्कारगुजारवः, कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । स्वैरं यत्र स बम्भ्रमीति सततं मोहाह्वयः केसरी, तां संसारमहाष्टवीं प्रतिवसन्को नाम जन्तुः सुखी? ॥९०॥ (शा०)
REACHERS
बैरा०९
१ चतुर्दशभेदभिन्नाया उपजातेरेकादशोऽयं भेदः, यत्र तृतीयं चरणमिन्द्रवज्रायाः शेषं चरणत्रिकं चोपेन्द्रवज्राया भवति ।
Jain Education
mal
For Private &Personal use Only

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172