Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता, मानुष्ये सदृशे तथाऽऽर्यखलयोर्दूरं विभेदो गुणैः ॥९८॥ (शार्दूल.)
त्वदृष्टिपातनिहताः खलु तेऽन्य एव, धैर्यव्रतं सुतनु ! ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता-स्तत्किं विडम्बयसि ? मन्मथविभ्रमैः स्वम् ॥ ९९ ॥ (वसन्ततिलका) सम्पत्स्यते? मम कदाचन तद्दिनं किं, सद्ध्यानरूढमनसः सततं भवेयुः।
आनन्दबिन्दुविशदानि सुधामयानि, यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः॥१०॥ (वसन्ततिलका) ललितं सत्यसंयुक्तं, सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां, स्वयं सिद्धैव भारती॥१०१॥ (अनुष्टुववृत्तम् ) सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः। श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः, पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये ॥ १०२॥ (शार्दूल०) सम्पूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये, श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने । आनन्दः स सखे ! न च क्वचिदसौ किं भूरिभिर्भाषितैः?, पद्मानन्दशते श्रुते किल मया यः स्वादितःस्वेच्छया ॥१०॥
इति श्रीजिनवल्लभसूर्युपासकश्रेष्टिवरधनदेवाङ्गज-कविवर-श्रीपद्मानन्दप्रणीतं
वैराग्यरसनिभृतं वैराग्यशतमित्यपराभिधानं पद्मानन्दशतं समाप्तम् । नाम्ना मोहनलालेति, विख्यातं जगतीतले । सुविहितक्रियासक्तं, जैनशासनमण्डनम् ॥१॥ गणिषु सन्धिरेषो हि, प्रशिष्यस्यापि शिष्यकः । भक्त्या स्मरति यं नित्यं, भद्रं ददातु सोऽन्वहम् ॥ २॥
RSSIRRO
Jain Educa
tornal
For Private & Personal use only
H
iainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172