Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 151
________________ प्रतिपादकवत् स्वव्याघातकप्रतिज्ञाप्रतिपादनपरा न सहृदां वार्तनीयाः। तथाऽयमात्मा सामान्यरूपेण द्रव्यत्वादिना एकः, नद्रव्यक्षेत्रकालस्वभावादिना सर्वेतरव्यावृत्तेन रूपेणानेकः । यदि चैकरूप एव सर्वथा स्यात् ? तदैकः सुखी अन्यो दुःखी एकः स्वपिति अन्यो जागर्ति इत्यादिभेदो न प्रतिभासेत । अथ नानारूप एव सर्वथा स्यात् । तदाऽयमा(त्माऽयमा त्मेत्येकरूपोऽवभासो न स्यात् । तदनयैव गत्या सर्वेऽपि पदार्था व्याख्येयाः। तदुक्तम्__“आदीपमाव्योमसमस्वभावं, स्याद्वादमुद्राऽनतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापा॥५॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका] एवं च प्रतिभासमुद्गरप्रतिहतं स्याद्वादे विरोधोद्भावनं नोत्थातुमपि शक्नोतीत्यर्थः। अतएव 'अवयणिज' अवचनीयं, [विरोधाभावादशक्यदोषोद्भावनमित्यर्थः॥८॥ इदानीं भगवतोनिप्रभावाविर्भावद्वारेण स्तुतिमाह पसरइ तियलोए ताव मोहंऽधयारं, भमइ जयमसन्नं ताव मिच्छत्तछन्नं । (प्रसरति त्रैलोक्ये तावन्मोहान्धकार, भ्रमति जगदसंज्ञं तावन्मिथ्यात्वच्छन्नम् ।) फुरइ फुडफलंताणतणाणंसुपूरो, पयडमजियसंतीझाणसुरो न जाव ॥९॥-मालिनी (स्फुरति स्फुटफलदनन्तज्ञानाशुपूरः, प्रकटमजितशान्तिध्यानसूरो न यावत् ॥ ९॥) Jain Educaton n al For Private & Personal use only Dainelibrarya

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172