Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रभोः स्याद्वादोपदेशकत्वसिद्धिः
लध्वजित'सुप्पसिद्धं च'-प्रमाणोपपन्नम् । तथाहि-अयमात्मा आत्मत्वापरिच्युतेनित्यः, देवत्वादिपर्यायविनाशाच्चानित्यः । यदि सविवरणम् चायं सर्वथाऽपि नित्य एव स्यात् ? तर्हि न देवत्वादिपर्यायविनाशः स्यात् । अथ सर्वथाऽप्यनित्य एव स्यात् ? तर्हि देवत्वा
दिपर्यायस्येवात्मत्वस्यापि विनाशाद्देवत्वपर्यायत्यागेन मनुष्यपर्याये सति आत्मव्यपदेशो न स्यात् । तथाऽयमात्मा स्वद्रव्यक्षेत्रकालस्वभावात्मकत्वेन सन् परद्रव्यक्षेत्रकालस्वभावात्मकत्वेनासन् । यदि चाऽयं सर्वथा सन् स्यात् ? [तदा] घटाद्यात्मकत्वस्यापि प्राप्त्या जडोऽपि स्यात् , यदि च सर्वथाऽप्यसन स्यात् तदा स्वद्रव्याद्यात्मकत्वेनापि न भावरूपः प्रतिभासेत । तथाऽयमात्माऽऽत्मत्वादिधर्मात्मकतयाऽभिलाप्यः, घटत्वादिधर्मात्मकतया त्वनभिलाप्यः । यदि च सर्वथाऽप्यभिलाप्यः स्यात् ? तदा घटाद्यात्मकोऽप्युच्येत । किञ्च-केचिद्धर्माः सन्तोप्यनभिधेयाः। तथाहि
"इक्षुक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथाऽपि न तदाख्यातुं, सरस्वत्याऽपि पार्यते ॥१॥" एवञ्चानुभवसिद्धा वक्तुमशक्या अपि सन्त्यनन्ता धर्मा इति सिद्धम् । तथाच"पण्णवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अणंतभागो सुयनिबद्धो ॥१४१॥"
विशेषावश्यकभाष्यम् । इति सिद्धान्तवचोऽतीवोपपन्नं-सम्पन्नम् । तथा यदि सर्वथाऽप्यनभिलाप्योऽयमात्मा स्यात् ? तदा आत्मशब्दादहंप्रत्ययगोचरस्य चिद्रूपस्य पदार्थविशेषस्य प्रतीतिर्न स्यात् । किञ्च-"शब्दो नार्थप्रतिपादक" इति ये प्रलपन्ति ते "अहं मौनी"ति
१ प्रज्ञापनीया भावा, अनन्त भागस्तु (एव) अनभिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः॥१॥
॥ ५७॥
NG
Jan Educatan international
For Private &Personal use Only
www.jainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172