Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 153
________________ Jain Education पलयमजियसंती कित्तणे झत्ति जंती, निबिडतरतमोहा भक्खरालुंखियच ॥ १० ॥ - मालिनी ( प्रलयं अजितशान्तिकीर्तने झगिति यान्ति, निविडतरतमओघाः भास्करालुङ्क्षिता इव ॥ १० ॥ ) व्याख्या - श्री अजितशान्तिवर्णने सति झगिति - शीघ्रं यान्ति - गच्छन्ति । कम् ?, प्रलयं-क्षयम् । के ?, अरिकरिहरितृष्णोष्णाम्बुचौराधिव्याधिसमरडमर मारिरौद्रक्षुद्रोपसर्गाः । अरयः - शत्रवः, करिणो - हस्तिनः, हरयः - सिंहाः, तृष्णा-पिपासा, उष्णः - आतपः, अम्बु-जलं, चौराः - तस्कराः, आधयो - मनोजनितपीडाविशेषाः, व्याधयो-ज्वरभगन्दरादयः, समरः - सङ्ग्रामः, डमरो - राजकृतोपद्रवः, मारिः- कुपितभूतपिशाचादिकृतप्राणिक्षयः, रौद्रक्षुद्रोपसर्गाः - भयानकक्रूराशयव्यन्तरादिविहितोपद्रवाः । एतेषामितरेतरद्वन्द्वसमासः । अत्रोपमानमाह- क इव प्रलयं यान्ति ?, निबिडतरमओघा इव-अतिगाढान्धकारप्रकरा इव । अत्रोपमानवचन इव शब्दो विशेषणपदाग्रे न्यस्तोऽप्यत्र विशेष्यपदपुरो योज्यते । कीदृशाः १, 'भक्खरालुंखियवे 'ति । भास्करेण - आदित्येन आलुङ्खिताः - स्पृष्टाः । "स्पृशः - फास- फंस-फरिस - छिव-छिलाहाऽऽलुखाऽऽलिहाः” [ ८-४-१८२ है० ] इत्यनेन स्पृशेरालुङ्घादेश इति ॥ १० ॥ अथ भगवतो रुपस्थध्यानद्वारेण स्तुतिमाह निचियदुरियदारुद्दित्तझाणग्गिजाला - परिगयमिव गोरं चिंतियं जाण रूवं । (निचितदुरित दारूद्दीत ध्यानाभिज्वाला - परिगतमिव गौरं चिन्तितं ययोः रूपम् । ) For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172