Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 159
________________ Jain Education Interna पढह सुणह सज्झाएह झाएह चित्ते, कुणह मुणह विग्धं जेण घाएह सिग्धं ॥ १६ ॥ - मालिनी ( पठत शृणुत स्वाध्यायत ध्यायत चित्ते, कुरुत जानीत विघ्नं येन घातयत शीघ्रम् ॥ १६ ॥ ) व्याख्या - भो भव्याः ! यूयं इति उक्तप्रकारेणेदं जिनवरद्विकस्तोत्रं । जिनवरयोः - अजितशान्त्योर्द्विकं - युग्मं, तस्य स्तोत्रं - स्तवनम् । कीदृशम् ?, पवित्रं प्रधानम् । किम् ?, पठत - अधीध्वं पट्टिकादौ लिखित्वा, तथा शृणुत- आकर्णयत सूत्रतोऽर्थतश्च कथ्यमानं स्वाध्यायत-गुणयत विकथात्यागेन, ध्यायत - स्मरत पदपदार्थादिचिन्तनेन, चित्ते - मनसि कुरुत - विधत्त आर्तरौद्र परिहारेण, कदाचिदपि चित्तान्मा मुञ्चतेत्यर्थः । 'मुण हे 'ति "ज्ञो जाणमुणी" [ ८-४-७ है० ] इत्यनेन ज्ञाधातोर्मुणादेशः, तेन सूत्रार्थतो जानीतेत्यर्थः । पठनादेः प्रस्तावविशेषमाह-पक्षे भवं पाक्षिकं पर्व, तस्मिन् । तथा चतुर्षु मासेषु भवं चातुर्मासं पर्व, तस्मिन्, तथा वत्सरे - पर्युषणापर्वणि । वा शब्दः समुच्चये । कीदृशे पाक्षिके चातुर्मासे संवत्सरे वा पर्वणि ?, गुरुदुःखत्रासे । गुरुदुःखानि - भवान्तरोपचितदुष्कर्मप्रभवाण्यसातानि तानि त्रासयति - भापयते, परमनिर्जराहेतुत्वेन नाशयतीति भावः, गुरुदुःखत्रासं, तस्मिन् । एतत्पठनादौ हेतुमाह-येन - स्तोत्र पठनादिना कारणेन घातयत-विनाशयत । किं तत् कर्मतापन्नम् ?, विघ्नं धर्मान्तरायम् । कथम् ?, शीघ्रं - झटिति, पठनानन्तरमेवेत्यर्थः ॥१६॥ अथ स्तोत्रं समर्थयन् स्तोतॄन् प्रति भगवन्तौ श्रेयस्करणविघ्नापहारौ प्रार्थयति इय विजयाजियसत्तुपुत्त ! सिरिअजियजिणेसर !, तह अइराविससेणतणय ! पंचमचक्कीसर ! | ( इति विजयाजितशत्रुपुत्र ! श्रीअजितजिनेश्वर !, तथा अचिराविश्वसेनतनय ! पचमचक्रीश्वर ! | ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172