Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| सप्रसादा जिनयुगपादाममादिरोगान्नपहरन्त्विति प्रार्थना
लध्वजिक सविवरणम्
नहमुहदसणच्छीकुच्छिकन्नाइरोगे, मह जिणजुयपाया सप्पसाया हरंतु ॥ १५॥-मालिनी
(नखमुखदशनाक्षिकुक्षिकर्णादिरोगान् , मम जिनयुगपादाः सप्रसादाः हरन्तु ॥ १५॥) ११॥
व्याख्या-जिनयुगपादाः। जिनयोः-अजितशान्त्योयुग-युग्मं, तस्य पादा:-क्रमाः। किंविशिष्टाः ?, सप्रसादाः-प्रसत्ति18| युक्ताः, मे-मम हरन्तु-अपनयन्तु । कानि?, अर्शः-किटिभ-कुष्ठ-ग्रन्थि-कासा-ऽतिसार-ज्वर-व्रण-लूता-श्वास-शोषो-दराणि ।
अशासि-गुदाङ्कराः, किटिभो-जङ्गाचरणसन्धिभावी रोगविशेषः, कुष्ठं-त्वग्विकारविशेषः, ग्रन्थिर्वातरक्तोद्भवो मांसोपचयः, कासातिसारौ प्रसिद्धौ, क्षयो-धात्वपचयः, ज्वर:-तापः, व्रणः-गण्डः अष्टाविंशतिभेदभिन्नः, लूता-द्वात्रिंशद्भेदभिन्ना दुष्ट|स्फोटिकाः, श्वासः-श्वासातिरेकः, शोषः-कण्ठोष्ठताल्वादिशोषः, उदरं-उदररोगः, जलोदरकठोदरादिः। अत्रेतरेतरद्वन्द्व| समासः। तथा नख-मुख-दशना-क्षि-कुक्षि-कर्णादिरोगान् । नखाः-पुनर्भवः, मुख-वदनं, दशना-दन्ताः, अक्षि-चक्षुः, कुक्षिः-जठरं, कौँ-श्रुती । नखाश्च मुखं च दशनाश्च अक्षि च कुक्षिश्च कर्णौ च नखमुखदशनाक्षिकुक्षिकर्णा इति समाहारद्वन्द्वः । तत् आदिर्येषां कण्ठादीनां ते कर्णादयस्तेषां रोगा-आमयास्तान् ॥१५॥ इदं सर्वश्रेयस्करं सर्वविघ्नहरं स्तवनं प्रति भव्यान् प्रवर्तयितुमाह
इय गुरुदुहतासे पक्खिए चाउमासे, जिणवरदुगथुत्तं बच्छरे वा पवित्तं । (इति गुरुदुःखनासे पाक्षिके चातुर्मासे, जिनवरयुगस्तोत्रं वत्सरे वा पवित्रम् ।)
ESGSHUSUS
ला॥६१ ॥
Jain Educa
For Private & Personal use only
TAgainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172