Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लध्वजि० सविवरणम्
॥१॥
संविग्नमुनिजनवातचूडामणयः स्वप्रज्ञाऽतिशय विशेषविनिर्जितामरसूरयः श्रीजिनवल्लभसूरयः श्रीअजितशान्त्योः स्तवनं मङ्गलाभिचतुर्विधश्रीश्रमणसंघश्रेयस्करं सप्तदशवृत्तप्रमाणं विशेषतः पाक्षिकादिपर्वणि पाठ्यं चिकीर्षवः प्रथममुत्प्रेक्षालङ्कारसारं साधेयादिशार्दूलच्छन्दसा वृत्तेन भगवत्स्तुतिप्रतिज्ञां चक्रिरे
कथनपूर्वकं उल्लासिक्कमनक्खनिग्गयपहादंडच्छलेणंगिणं, वंदारूण दिसंत इव पयर्ड निवाणमग्गावलिं।
भगवतोः ( उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलेनाङ्गिनां, वन्दारूणां दिशन्ताविव प्रकटं निर्वाणमार्गावलिम् ।)
स्तुतिप्रकुंदिंदुजलदंतकंतिमिसओ नीहंतनाणंऽकुरु-केरे दोवि दुइजसोलसजिणे थोसामि खेमंकरे॥१॥-शार्दूलof
तिज्ञा (कुन्देन्दूज्वलदन्तकान्तिमिषतो निर्यज्ज्ञानाङ्कुरो-त्करौ द्वावपि द्वितीयपोडशजिनौ स्तोष्यामि क्षेमङ्करौ ॥ १॥) विव०-स्तोष्यामि-कीर्तयिष्यामि । अहमित्यध्याहारः । को कर्मतापन्नौ ?, द्वावपि । कौ द्वौ ?, द्वितीयषोडशजिनौ | अजितशान्तिनामानौ । कीदृशौ ?, क्षेमकरौ । क्षेमं-श्रेयः कुरुतः क्षेमङ्करौ, तौ । पुनः किंविशिष्टौ ?, दिशन्ताविव-प्रतिपादयन्ताविव । 'इव'शब्द उत्प्रेक्षायाम् । काम् ?, निर्वाणमार्गावलिं-मोक्षपथश्रेणिम् । केषाम् ?, अङ्गिना-प्राणिनाम् । किंविधानाम् ?, वन्दारूणां-नमस्कृतिकृताम् । कथम् ?, प्रकटं-[स्फुटं] स्पष्टम् । केन?, उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलेन । * "कल्पना काचिदौचित्या-द्यत्रार्थस्य सतोऽन्यथा । द्योतितेवादिभिः शब्दै-रुत्प्रेक्षा सा स्मृता यथा ॥९०॥" इति वाग्भटालङ्कारे।
॥५१॥ +"सूर्याश्वर्मसजस्ततःसगुरवः शार्दूलविक्रीडितम् ॥९९॥" मगणः-सगणः-जगणः-सगणः-तगणः-तगण:-गुरुद्वादशभिः सप्तभिश्च यतिरिति वृत्तरत्नाकरः।
1 sss 115 151 115 SSI ss ss
ॐ
Jan Educatan ini
For Private &Personal use Only
Dि www.jainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172