Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 144
________________ लध्वजि० सविवरणम् ॥ ४ ॥ Jain Education la विव० - अत्राप्रेतनवृत्तस्थं 'थुणह अजियसंती ते' इति तच्छन्दप्रधानं वाक्यं सम्बध्यते । ततश्च तावजितशान्ती स्तुत-वर्णयत । 'जहंसणच्छेयभीया इव पणमणमंदा कासि नोवहार' मिति सम्बन्धः । अकार्षुः - विदधुः । काः ?, अनिमिषरमण्यः । प्राकृतत्वादत्र विभक्तिलोपः । अनिमिषाः - देवाः, तेषां रमण्यः - स्त्रियः । कम् ?, नृत्योपहारम् । नृत्येन - नर्तनेन उपहारः -पूजा, तम् । कीदृश्यः १, प्रणमनमन्दाः । प्रणमने - न्यङ्मस्तककरणे मन्दाः - अलसाः । किल नर्तक्यः प्रायः सम्मुखमवलोकयन्त्य एव नृत्यं कुर्वन्तीति स्वभावः । ततः कविनोत्प्रेक्ष्यते न स्वभावतो, यद्दर्शनच्छेदभीता इव । | ययोरजितशान्त्योदर्शनं - अवलोकनं भवशतेष्वपि दुष्प्रापं तस्य छेदः - अन्तरायस्ततो भीता इव - चकिता इव, भूयोऽपि दुर्लभं भगवद्दर्शनं इति तदन्तरायं प्रणामकालभाविनमप्य सहन्त्य इत्यर्थः । कीदृशं नृत्योपहारम् ?, ललितपदप्रचारं । ललिताः - रमणीयाः पदप्रचाराः - स्वचरणन्यासा यत्र, तम् । पुनः किंविधम् ?, भूरिदिव्याङ्गहारं । भूरयः, -प्रभूता दिव्याः- परमोत्कर्षशालिनो अङ्गहाराः - अङ्गविक्षेपा यत्र, तम् । भूयोऽपि कीदृक् ?, स्फुटघनरसभावोदारशृङ्गारसारम् । स्फुट: -व्यक्तः, घनः - सान्द्रो योऽसौ रसः शृङ्गारो भावो - रतिस्ताभ्यां उदारो योऽसौ शृङ्गारो-विभूषाप्रकारस्तेन सारंप्रधानम् । भावशृङ्गाररसाभ्यां बन्धुरमित्यर्थः ॥ ६ ॥ सम्प्रति भगवतोर्वर्णवर्णनापूर्वकं स्तुतिमाह थुणह अजियसंती ते कयासेससंती, कणयरयपिसंगा छज्जए जाण मुत्ती । (स्तुत अजितशान्ती तौ कृताशेपशान्ती, कनकरजःपिशङ्गा राजते ययोर्मूर्तिः । ) For Private & Personal Use Only देवाङ्गनानृत्योपहार वर्णनम् ॥ ५४ ॥ inelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172