________________
लध्वजि० सविवरणम्
॥ ४ ॥
Jain Education la
विव० - अत्राप्रेतनवृत्तस्थं 'थुणह अजियसंती ते' इति तच्छन्दप्रधानं वाक्यं सम्बध्यते । ततश्च तावजितशान्ती स्तुत-वर्णयत । 'जहंसणच्छेयभीया इव पणमणमंदा कासि नोवहार' मिति सम्बन्धः । अकार्षुः - विदधुः । काः ?, अनिमिषरमण्यः । प्राकृतत्वादत्र विभक्तिलोपः । अनिमिषाः - देवाः, तेषां रमण्यः - स्त्रियः । कम् ?, नृत्योपहारम् । नृत्येन - नर्तनेन उपहारः -पूजा, तम् । कीदृश्यः १, प्रणमनमन्दाः । प्रणमने - न्यङ्मस्तककरणे मन्दाः - अलसाः । किल नर्तक्यः प्रायः सम्मुखमवलोकयन्त्य एव नृत्यं कुर्वन्तीति स्वभावः । ततः कविनोत्प्रेक्ष्यते न स्वभावतो, यद्दर्शनच्छेदभीता इव । | ययोरजितशान्त्योदर्शनं - अवलोकनं भवशतेष्वपि दुष्प्रापं तस्य छेदः - अन्तरायस्ततो भीता इव - चकिता इव, भूयोऽपि दुर्लभं भगवद्दर्शनं इति तदन्तरायं प्रणामकालभाविनमप्य सहन्त्य इत्यर्थः । कीदृशं नृत्योपहारम् ?, ललितपदप्रचारं । ललिताः - रमणीयाः पदप्रचाराः - स्वचरणन्यासा यत्र, तम् । पुनः किंविधम् ?, भूरिदिव्याङ्गहारं । भूरयः, -प्रभूता दिव्याः- परमोत्कर्षशालिनो अङ्गहाराः - अङ्गविक्षेपा यत्र, तम् । भूयोऽपि कीदृक् ?, स्फुटघनरसभावोदारशृङ्गारसारम् । स्फुट: -व्यक्तः, घनः - सान्द्रो योऽसौ रसः शृङ्गारो भावो - रतिस्ताभ्यां उदारो योऽसौ शृङ्गारो-विभूषाप्रकारस्तेन सारंप्रधानम् । भावशृङ्गाररसाभ्यां बन्धुरमित्यर्थः ॥ ६ ॥
सम्प्रति भगवतोर्वर्णवर्णनापूर्वकं स्तुतिमाह
थुणह अजियसंती ते कयासेससंती, कणयरयपिसंगा छज्जए जाण मुत्ती । (स्तुत अजितशान्ती तौ कृताशेपशान्ती, कनकरजःपिशङ्गा राजते ययोर्मूर्तिः । )
For Private & Personal Use Only
देवाङ्गनानृत्योपहार
वर्णनम्
॥ ५४ ॥
inelibrary.org