SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ फुरइ परमतित्ती होइ संसारछित्ती, जिणजुयपयभत्ती ही अचिंतोरुसत्ती ॥५॥- मालिनी (स्फुरति परमतृप्तिः भवति संसारछित्तिः, जिनयुगपदभक्तिी अचिन्त्योरुशक्तिः ॥ ५॥) विव०-वर्तते । काऽसौ ?, जिनयुगपदभक्तिः । जिनयोः-अजितशान्त्योः , युग-युग्मं, तस्य पदाः-चरणास्तेषु भक्तिः-आन्तरा प्रीतिः प्रवर्तितशिरोनमनादिरूपा । कीदृशी ?, अचिन्त्योरुशक्तिः । अचिन्त्या-चिन्तयितुमशक्या उव:-| गरिष्ठा शक्तिः-सामथ्यं प्रभावो यस्याः सा तथोक्ता । 'ही' इति शब्द आश्चर्ये । तथा च माघ:-"ही विचित्रो विपाका" द इति । कथं विज्ञायते ? इत्यत्राह-प्रसरति-विस्तारं गच्छति वरकीर्तिः-प्रधानं यशः, जिनपदयुगभक्तित इति गम्यम् । एवमग्रेऽपि । तथा वर्धते देहदीप्तिः-उज्जृम्भते शरीरकान्तिः। तथा विलसति भुवि मैत्री-विस्फूर्जति क्षितौ प्रीतिः। तथा जायते-सम्पद्यते शोभना सफलत्वेन प्रवृत्तिः-व्यापारः सुप्रवृत्तिः । तथा स्फुरति परमतृप्तिः-उल्लसति परमसन्तोषः। दाभवति संसारछित्तिः-सम्पद्यते भवविच्छेद इति ॥ ५॥ अथ देवाङ्गनानां भगवद्विषये नृत्यपूजाप्रतिपादनद्वारेण स्तुतिमाह ललियपयपयारं भूरिदिवंगहारं, फुडघणरसभावोदारसिंगारसारं। ( ललितपदप्रचारं भूरिदिव्याङ्गहार, स्फुटघनरसभावोदारशृङ्गारसारम् ।) अणिमिसरमणी जइंसणच्छेयभीया, इव पणमणमंदा कासि नहोवहारं ॥६॥-मालिनी ( अनिमिषरमण्यो यद्दर्शनच्छेदभीताः, इव प्रणमनमन्दा अकार्षन्त्योपहारम् ॥ ६॥) CSCAMERMOREOGRAM Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy