Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 145
________________ CONGRESEARCIALISA सरभसपरिरंभारंभिनिवाणलच्छी-घणथणघुसिणंकुप्पंकपिंगीकयच॥७॥-मालिनी ( सरभसपरिरम्भारम्भिनिर्वाणलक्ष्मी-घनस्तनघुसृणाङ्कोत्पङ्कपिङ्गीकृता इव ॥ ७ ॥) व्याख्या-स्तुत-नुत भो भव्याः!, को कर्मतापन्नौ ?, तौ अजितशान्ती । कीदृशौ ?, कृताशेषशान्ती । कृता-विहिता अशेषा-सम्पूर्णा जगत्रये शान्तिः-शिवं यकाभ्यां तौ । ययोः किं ?, 'छज्जए' इति राजते “राजेरग्घ-छज्ज-सह-रीर-रेहा" [८-४-१०० है ] इति 'राजि' धातोश्छज्जादेशः। काऽसौ ?, मूर्तिः-तनुः । कीदृशी ?, कनकरजःपिशङ्गा । कनकस्य | रजः-चूर्ण, तद्वत् पिशङ्गा-पीता, भगवतोः सुवर्णवर्णा मूर्तिरेषः स्वभावः, परं कविनोत्प्रेक्ष्यते-न स्वभावतः, किं तर्हि ?, सरभसपरिरम्भारम्भिनिर्वाणलक्ष्मीधनस्तनघुसृणाकोत्पङ्कपिङ्गीकृतेव । सरभसं-सौत्सुक्यं यथा भवति, एवं परिरम्भआलिङ्गनं, तं आरभते-करोतीत्येवंशीला सरभसपरिरम्भारम्भिणी, सा चासौ निर्वाणलक्ष्मीश्च-मुक्तिनायिका च, तस्या धनौ-पीनौ च तो स्तनौ च, तयोर्योऽसौ घुसृणाङ्क:-कुङ्कमविभूषा, तस्योत्कृष्टः पङ्को-द्रवः, तेन पिङ्गीकृतेव-पिञ्जरितेव । किल नायिकाः सकामाः शृङ्गारिण्यो नवयौवने निजस्तनकलशयोः कुङ्कमेन मण्डनं कुर्वन्ति । ततो यदा गाढानुरागेण प्रियतमस्यालिङ्गनं कुर्वते तदा तत् स्तनमण्डनेन तस्याङ्गं पिञ्जरितं भवति, भगवतोरपि मुक्तेर्वधूत्वेन निरूपिताया आलिङ्गनं |सम्भाव्यैवमुत्प्रेक्ष्यतेति भावः ॥७॥ सम्प्रति प्रमाणसुप्रतिष्ठस्याद्वादोपदेशकत्वद्वारेण भगवतोः स्तुतिमाह RECENCODESCRICROCOCCRECORE चैरा० Jan Educaton de Lonal For Private Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172