Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SCREERSARAN-20
अलमहव अचिंताणंतसामत्थओ सिं, फलिहइ लह सवं वंछियं णिच्छियं मे ॥३॥-मालिनी
( अलमथवा अचिन्त्यानन्तसामर्थ्यानयोः, फलिष्यति लघु सर्व वाञ्छितं निश्चितं मे ॥ ३ ॥) विव०-यद्यप्येवमस्ति तथापि (हुरिति निश्चयेन) कीर्तयिष्यामि-स्तोष्ये । कम् ?, गुणकणमपि-गुणलेशमपि । अर्थादजितशान्त्योरिति गम्यते । यद्यपि भगवद्गुण एकोऽपि सामस्त्येन वर्णयितुं न शक्यते, तथापि गुणस्य लेशमष्यह उत्कीर्तयिष्यामि । केन ?, बहुमानोल्लासिभक्तिभरेण । बहुमानेन-आन्तरप्रीतिविशेषेणोल्लासिनी-प्रवर्धमाना चासौ भक्तिःशिरोनमनाञ्जलिबन्धादिरूपा च, तस्या भरः-प्राग्भारस्तेन । ननु गुणलेशस्तवनेन किं सेत्स्यति ? इत्यत्राह-चिन्तामणि मिवचिन्तामणिसदृशं, यथा खल्पोऽपि चिन्तामणिः स्तुतः सर्व समीहितं पूरयति, तथा भगवद्गुणलेशोऽपीत्यर्थः । अथवा अलं-सृतं । एतन्मम प्रारब्धं सेत्स्यति न वेति विचारेणेति गम्यते । कुतः ? इत्याह-फलिष्यति-सम्पत्स्यते । किम् ?, वाञ्छितं-समीहितम् । कस्य ?, मे-मम । कीदृशम् ?, सर्व-समस्तम् । आस्तां स्तवकरणमात्रं, अन्यदपि सेत्स्यतीत्यर्थः । कथम् ?, लघु-शीघ्रम् । पुनः कथम् ?, निश्चितं-निस्संशयम् । कस्मात् ?, अचिन्त्यानन्तसामर्थ्यतः। अचिन्त्यंचिन्तयितुमशक्यं, अनन्तं-अपर्यवसानं, तच्च तत्सामर्थ्य च-प्रभावश्च, तस्मात् । कयोः?, 'सिं' इत्यनयोरजितशान्त्योः । "वेदं तदेतदोः उस्तमूभ्यां से-सिमौ” (८-३-८१ है०) इत्यनेन इदमः आमा सह सिमादेश इति ॥३॥ ___ भगवन्माहात्म्यात् समस्तं वाञ्छित सेत्स्यत्येवेति समर्थयितुं भगवन्नाममात्रस्यापि प्रभावातिशयं दर्शयन् भगवन्तौ प्रति प्रणाममाह
Jan Education
a
l
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172