SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ SCREERSARAN-20 अलमहव अचिंताणंतसामत्थओ सिं, फलिहइ लह सवं वंछियं णिच्छियं मे ॥३॥-मालिनी ( अलमथवा अचिन्त्यानन्तसामर्थ्यानयोः, फलिष्यति लघु सर्व वाञ्छितं निश्चितं मे ॥ ३ ॥) विव०-यद्यप्येवमस्ति तथापि (हुरिति निश्चयेन) कीर्तयिष्यामि-स्तोष्ये । कम् ?, गुणकणमपि-गुणलेशमपि । अर्थादजितशान्त्योरिति गम्यते । यद्यपि भगवद्गुण एकोऽपि सामस्त्येन वर्णयितुं न शक्यते, तथापि गुणस्य लेशमष्यह उत्कीर्तयिष्यामि । केन ?, बहुमानोल्लासिभक्तिभरेण । बहुमानेन-आन्तरप्रीतिविशेषेणोल्लासिनी-प्रवर्धमाना चासौ भक्तिःशिरोनमनाञ्जलिबन्धादिरूपा च, तस्या भरः-प्राग्भारस्तेन । ननु गुणलेशस्तवनेन किं सेत्स्यति ? इत्यत्राह-चिन्तामणि मिवचिन्तामणिसदृशं, यथा खल्पोऽपि चिन्तामणिः स्तुतः सर्व समीहितं पूरयति, तथा भगवद्गुणलेशोऽपीत्यर्थः । अथवा अलं-सृतं । एतन्मम प्रारब्धं सेत्स्यति न वेति विचारेणेति गम्यते । कुतः ? इत्याह-फलिष्यति-सम्पत्स्यते । किम् ?, वाञ्छितं-समीहितम् । कस्य ?, मे-मम । कीदृशम् ?, सर्व-समस्तम् । आस्तां स्तवकरणमात्रं, अन्यदपि सेत्स्यतीत्यर्थः । कथम् ?, लघु-शीघ्रम् । पुनः कथम् ?, निश्चितं-निस्संशयम् । कस्मात् ?, अचिन्त्यानन्तसामर्थ्यतः। अचिन्त्यंचिन्तयितुमशक्यं, अनन्तं-अपर्यवसानं, तच्च तत्सामर्थ्य च-प्रभावश्च, तस्मात् । कयोः?, 'सिं' इत्यनयोरजितशान्त्योः । "वेदं तदेतदोः उस्तमूभ्यां से-सिमौ” (८-३-८१ है०) इत्यनेन इदमः आमा सह सिमादेश इति ॥३॥ ___ भगवन्माहात्म्यात् समस्तं वाञ्छित सेत्स्यत्येवेति समर्थयितुं भगवन्नाममात्रस्यापि प्रभावातिशयं दर्शयन् भगवन्तौ प्रति प्रणाममाह Jan Education a l For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy