Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लध्वजि. सविवरणम्
॥२॥
GAGEMOCRECESSAGROCERY
विव०-'स समर्थः' स शक्तः । किं कर्तुम् ?, स्तोतुं-उत्कीर्तयितुम् । कम् ?, अजितं-द्वितीयतीर्थकरम् । अथवेति अनेकोपसमुच्चये । शान्ति च-पोडशं जिनम् । यः किम् ?, यो मिनुयात्-एतावदेतदिति प्रमाणं कुर्यात् । किम् ?, चरमजलधि समया सम्पूनीरं-स्वयम्भूरमणसमुद्रजलम् । कैः ?, अञ्जलिभिः-प्रसूतिभिः, इतरसरोवरादिजलमप्यञ्जलिभिर्मातुं न शक्यते, किं स्तुतेरकपुनः समुद्रस्य ?, तत्रापि स्वयम्भूरमणसमुद्रस्य ?, परं तदपि यो मिनुयात् । तथा यो जयेत्-पराभवेत् । कम् ?,13रणीयत्वम् क्षयसमयसमीरं-प्रलयकालवातम् । कया ?, गत्या-पादचक्रमणेन । अन्योऽपि वातो गत्या जेतुं न शक्यते, व पुनः क्षयसमयसमीरः?, परं तमपि यः स्वगत्या पृष्टौ पातयित्वा पुरो याति । तथा [वा-अथवा] यो लङ्घयेत्-आ[अतिक्रमितुं| समर्थः स्यात् । किम् ?, सकलनभस्तलं-सर्वाकाशमण्डलम्, न पुनरेकदेशतः। [काभ्यां ?, पादाभ्यां] । समुद्रादिकमपि लवयितुं न शक्यते, आस्तां नभस्तलम् , तत्रापि सकलम् , परं तदपि यो लङ्घयेत् , स समर्थः। 'स्तोतुम्' इति पदं त्रिष्वपि यच्छन्देषु प्रत्येकं योजनीयम् । अयमभिप्रायः-चरमजलधिनीरमानं क्षयसमयसमीरजयनं सकलनभस्तललनं च पटुरपि न कोऽपि कर्तुं समर्थः, एवं निरुपममहिमासमुद्रयोर्भगवतोगुणोत्कीर्तनमपीत्यर्थः॥२॥
यदि नाम एवं उक्तयुक्त्या भगवद्गुणोत्कीर्तने कस्यापि प्रागल्भ्यं नावलोक्यते, तर्हि किमिति तव तावत्तत्रोद्यमः ? कथं च तत्प्रमाणपदवीमारोक्ष्यतीत्याशङ्कयाह
॥५२॥ तहवि हु बहुमाणुल्लासिभत्तिभरेणं, गुणकणमवि कित्तेहामि चिंतामणिव । ( तथापि खलु बहुमानोल्लासिभक्तिभरेण, गुणकणमपि कीर्तयिष्यामि चिन्तामणिमिव ।)
RECECRECIRRESSESAMA
Jain Educatan international
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172