Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 128
________________ पद्मानन्दशतम् ॥ ४ ॥ ( शा० ) शार्दूल ० क्रोधो न्यक्कृतिभाजनं न विहितो नीतो न मानः क्षयं, माया नैव हता हताश ! नितरां लोभो न सङ्घोभितः । रे! तीव्रोत्कटकूट चित्तवशग ! स्वान्त ! त्वया हारितं, हस्ताप्तं फलमाशु मानवभव श्री कल्पवृक्षोद्भवम् ॥ ४८ ॥ ( शार्दूल० ) बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना, तारुण्ये तरुणी समाहृतहृदा भोगेकसङ्गेच्छुना । वृद्धत्वेऽपि जराऽभिभूतकरणग्रामेण निःशक्तिना, मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा ! ! मया ॥ ४९ ॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवीं गाहसे, मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तं यदि दृश्य स्थिरतया कस्यापि पृथ्वीतले, रे रे !! चञ्चलचित्त ! वित्तहतक ! व्यावर्त्ततां मे तदा ॥५०॥ अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्त्तान्तरे, मायागुल्मतले क्वचित्क्वचिदहो ! ! निन्दानदीसङ्कटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ५१ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालङ्कृतं, गुर्वाज्ञागुणगुम्फनाद्दढतरं सद्बोधपोतं श्रितः । मोहग्राहभयङ्करं तर महासंसारवारांनिधिं, यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ ५२ ॥ किं भस्मप्रतिलेपनेन ? वपुषो धूमस्य पानेन ? किं, वस्त्रत्यागजुगुप्सया किमनया ? किं ? वा त्रिदण्ड्याऽप्यहो !! । किं स्कन्धेन नतेन ? कम्बलभराजापस्य किं ? मालया, वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ ५३ ॥ ( शा० ) रोद्धुं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते, भेत्तुं वज्रमयं शिरीषकुसुमप्रान्तेन सन्नह्यति । ( शार्दूल० ) ( शार्दूल० ) ११ (वि- विशेषेण आ-समन्ताद्वर्त्ततां भवतु ) । Jain Education International. For Private & Personal Use Only अपरित्यक्त कषायाणां वृथामनुज त्वहारणा स्पश्चात्तापादिः ॥ ४६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172