Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 21
________________ पण्डितप्रवर श्री साधुसुन्दरगणि-कृत अथ करणम् । येन क्रियते तत् करणम् । तद् द्विधा - बाह्यमाभ्यन्तरं च । बाह्यं यथा - दात्रेण व्रीहीन् लुनाति । आभ्यन्तरं यथा - मनसा मेरुं गच्छति । अस्य करणस्य कारकान्तरतः स्वकाङ्क्षया प्रकर्षो न । यथा - दात्रैः शस्त्रैर्नखैर्वयो लूनाः । तद्बहुधाऽपि । एष रुद्रीय पशुं ददातीत्यर्थे कर्मणः करणसंज्ञा संप्रदानं च कर्म स्यात् । एष पशुना रुद्रं यजति । तथा समविषमयोः कर्मत्वे करणं भवति । यथा समेन धावत्यश्वः । विषमेण I धावत्यश्वः । ४ अथ संप्रदानम् । तत् संप्रदानं यस्मै पूजानुग्रहकाम्यया दित्सा | संप्रदानं त्रिधा - अनुमन्तु प्रेरकं अनिराकर्तृ चेति । ददामीति वचनं श्रुत्वा एवं कुर्वित्यनुमन्यते तदनुमन्तृ । यथा - यजमानो गुरवे गां ददाति । यच्च देहीत्युक्त्वा दातारं प्रेरयति तत् प्रेरकम् । यथा - द्विजाय गां देहि । यन्नानुमन्यते नापि प्रेरयति किन्तु मूकवदास्ते तद् अनिराकर्तृ । यथादेवाय हेम दत्ते, राज्ञो दण्डं दत्ते, प्रतः पृष्ठिं दत्ते । अत्र दित्सा नास्ति । भट्टस्य शतं दत्ते । अत्र च नार्चानुग्रहकाम्यया दानं तेन न सम्प्रदानम् । तदेव संप्रदानं यत् त्यागभावयुक्तं स्यात् । दीयमानेन संयोगाद् यदि स्वामित्वं लभते । रजकस्य वस्त्रं दत्ते । अत्र त्यागाभावस्तेन न सम्प्रदानम् । द्विजस्य भाटकेन गृहं दत्ते । अत्र स्वामिता न । गृहस्य स्वामी हिजो न भवतीति न सम्प्रदानम् । अथापादानम् । यस्मादपायस्तदपादानम् । तदचलं चलं च । अचलं यथा - वृक्षात् पर्णं पतति । चलं यथा - धावतोऽश्वादपतदश्ववारः । I अथाधिकरणम् । आधारोऽधिकरणम् । तत् पद्मकारम् । वैषयि कम् १, औपश्लेषिकम् २, आभिव्यापकम् ३, नैमित्तिकम् ४ सामीप्यकम ५, औपचारिकम् ६, चेति । विषयो नान्यत्र भावः । यथा - दिवि देवाः सन्ति । यत्रैकदेशसंयोगः स उपश्लेषः । यथा - चैत्रः कटे आस्ते; गृही गृहे तिष्ठति । यत्र सर्वाङ्गसंयोगस्तदभिव्यापकम् । यथा - तिलेषु तैलम्, दनि घृतम् । यस्य यन्निमित्तं तन्नैमित्तिकम् । यथा - शूरो युद्धे संनह्यते, व्याधो दन्तयोः कुञ्जरं हन्ति । समीपमेव सामीप्यम् । यथागङ्गायां घोषः, गङ्गासमीपे घोष इत्यर्थः । शकुनिर राकाशे याति, भक्तिमान् गुरौ नमति । यदुपचाराद्भवेत्तदौपचारिकम् । यथा - अङ्गुल्यग्रे करिशतमास्ते । अस्यायमिति सम्बन्धः । षष्ठ्युत्पत्तिस्तु मुख्यात् । तस्माद्विवक्षया सर्वाणि कारकाणि भवन्ति । स्वस्वामित्वादिभेदेन षष्ट्यधिकशतमर्थाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136