Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 20
________________ उक्तिरत्नाकर ३ " 1 भर्तारं रमणीं गमयति । अत्र गमिर्भजनार्थस्तेन न कर्तृकर्मत्वम् । विष्णुः पार्थं समरं गमयति । अत्र गत्यर्थ एव । नयत्यादिवर्जनम् । नयतेः प्रापणोपसर्जन प्राप्त्यर्थत्वेन गत्यर्थत्वात्, खाद्यद्योराहारार्थत्वात् हाशब्दायक्रन्दां च शब्दकर्मकत्वात् प्राप्ते कर्तृकर्मत्वे प्रतिषेधार्थम् । नयति भारं चैत्रः । नाययति भारं चैत्रेण मैत्रः । खादयति पिता पुत्रेण खाद्यम् । आदयत्यन्नं चैत्रेण मैत्रः । ह्राययति चैत्रं मैत्रेण देवदत्तः । शब्दाययति चैत्रं मैत्रेण देवदत्तः । ऋन्दयति चैत्रं मैत्रेण देवदत्तः । कर्मसंज्ञाप्रतिपेधात् स्वव्यापाराश्रयं कर्तृत्वमेव । वहेरसारथिकर्तृत्वे तथा भक्षेरहिंसायां च न कर्तृकर्मत्वम् । यथा - भूपतिर्भूत्येन भारं ग्रामं वाहयति । सारथिकर्तृत्वे तु कर्तृकर्मत्वमेव । यथा - सारथिरुक्षाणं सस्यं ग्रामं वाहयति । चैत्रौ मैत्रेण मोदकान् भक्षयति । हिंसायां तु कर्तृकर्मत्वमेव । यथा-व्याधो गृहकुकुटं कीटकान् भक्षयते । हृकोः कर्ता णिगि वा कर्म भवति । यथा - स्वामी भृत्यं भृत्येन वा भारं ग्रामं हारयते । वणिक कारू कारुणा वा कटं कारयते । दृइयभिवाद्योः कर्ता आत्मनेपदे वा कर्म भवति । यथा - राजा लोकं लोकेन वाऽऽत्मानं दर्शयते । पिता पुत्रं पुत्रेण वा पूज्यमभिवादयते । केचिच्चौरादिकस्याप्यभिवादेः कर्म वेच्छन्ति । अविवक्षितकर्मधातोरणि कर्तुर्णी वा कर्मत्वम् । यथा - मैत्रेयचैत्रं चैत्रेण वा पाचयते । पिता पुत्रेण पाचयति । आख्यात -समास - तद्धित - कृद्भिः कर्मण उक्तत्वं स्यात् । आख्यातेन यथा - कुम्भकारेण कुम्भः क्रियते । समासेन यथा - आरूढवानरो वृक्षः । तद्धितेन यथा - शत्यः शतिकश्च पटः । शतेन क्रीतः शत्यः शतिकञ्च । कृता यथा- तैः कटः कृतः । अथवा एकस्य द्विकर्मणो धातोरुभयत्राप्युक्तत्वम् । बोधाहारार्थशब्दकर्मवतां णिगि सति पर्यायेणोभयत्राप्युक्तत्वम् । बोधार्थादीनां यथा - गुरुणा शिष्यो धर्मं बोध्यते, शिष्यं वा धर्मो बोध्यते । दात्रा अतिथिः ओदनं भोज्यते, अतिथि वा ओदनो भोज्यते । गुरुणा शिष्यो ग्रन्थं पाठ्यते, शिष्यं वा ग्रन्थः पाठ्यते । गत्यर्थाकर्मणां णिगि मुख्यं कर्म उक्तं स्यात् । यथा - तैमैत्रो ग्रामं गम्यः, तैमैत्रो मासमास्यते । षट् कारके तु णिगि प्रोक्तमन्यद्वा कर्म कर्मजः प्रत्ययो वक्ति । यथा - स तैमैत्रं ग्रामो गम्यः । तैमैत्रं मास आस्यते । क्रियाविशेषणस्यापि सकर्मकधातुषु नपुंसकत्वमेकत्वं कर्मत्वं च प्रयुज्यते । यथा - एवा ब्राह्मणी स्तोकं पचति सर्वं खादयति च । कुम्भः शीघ्रमुत्पद्यते । गलिगः सुखं जीवति । कर्मोपसंहारः कथ्यते । इत्येतत् प्राप्यं निर्वर्त्य विकार्य चेति त्रिधा इष्टानिष्टानुभयभेदैर्नवधा स्यात् । तत्पुनः प्रधानेतरभेदाभ्यामष्टादशधा । इति संक्षेपेण कर्मप्रपञ्च दर्शितः । 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136