________________
उक्तिरत्नाकर
३
"
1
भर्तारं रमणीं गमयति । अत्र गमिर्भजनार्थस्तेन न कर्तृकर्मत्वम् । विष्णुः पार्थं समरं गमयति । अत्र गत्यर्थ एव । नयत्यादिवर्जनम् । नयतेः प्रापणोपसर्जन प्राप्त्यर्थत्वेन गत्यर्थत्वात्, खाद्यद्योराहारार्थत्वात् हाशब्दायक्रन्दां च शब्दकर्मकत्वात् प्राप्ते कर्तृकर्मत्वे प्रतिषेधार्थम् । नयति भारं चैत्रः । नाययति भारं चैत्रेण मैत्रः । खादयति पिता पुत्रेण खाद्यम् । आदयत्यन्नं चैत्रेण मैत्रः । ह्राययति चैत्रं मैत्रेण देवदत्तः । शब्दाययति चैत्रं मैत्रेण देवदत्तः । ऋन्दयति चैत्रं मैत्रेण देवदत्तः । कर्मसंज्ञाप्रतिपेधात् स्वव्यापाराश्रयं कर्तृत्वमेव । वहेरसारथिकर्तृत्वे तथा भक्षेरहिंसायां च न कर्तृकर्मत्वम् । यथा - भूपतिर्भूत्येन भारं ग्रामं वाहयति । सारथिकर्तृत्वे तु कर्तृकर्मत्वमेव । यथा - सारथिरुक्षाणं सस्यं ग्रामं वाहयति । चैत्रौ मैत्रेण मोदकान् भक्षयति । हिंसायां तु कर्तृकर्मत्वमेव । यथा-व्याधो गृहकुकुटं कीटकान् भक्षयते । हृकोः कर्ता णिगि वा कर्म भवति । यथा - स्वामी भृत्यं भृत्येन वा भारं ग्रामं हारयते । वणिक कारू कारुणा वा कटं कारयते । दृइयभिवाद्योः कर्ता आत्मनेपदे वा कर्म भवति । यथा - राजा लोकं लोकेन वाऽऽत्मानं दर्शयते । पिता पुत्रं पुत्रेण वा पूज्यमभिवादयते । केचिच्चौरादिकस्याप्यभिवादेः कर्म वेच्छन्ति । अविवक्षितकर्मधातोरणि कर्तुर्णी वा कर्मत्वम् । यथा - मैत्रेयचैत्रं चैत्रेण वा पाचयते । पिता पुत्रेण पाचयति । आख्यात -समास - तद्धित - कृद्भिः कर्मण उक्तत्वं स्यात् । आख्यातेन यथा - कुम्भकारेण कुम्भः क्रियते । समासेन यथा - आरूढवानरो वृक्षः । तद्धितेन यथा - शत्यः शतिकश्च पटः । शतेन क्रीतः शत्यः शतिकञ्च । कृता यथा- तैः कटः कृतः । अथवा एकस्य द्विकर्मणो धातोरुभयत्राप्युक्तत्वम् । बोधाहारार्थशब्दकर्मवतां णिगि सति पर्यायेणोभयत्राप्युक्तत्वम् । बोधार्थादीनां यथा - गुरुणा शिष्यो धर्मं बोध्यते, शिष्यं वा धर्मो बोध्यते । दात्रा अतिथिः ओदनं भोज्यते, अतिथि वा ओदनो भोज्यते । गुरुणा शिष्यो ग्रन्थं पाठ्यते, शिष्यं वा ग्रन्थः पाठ्यते । गत्यर्थाकर्मणां णिगि मुख्यं कर्म उक्तं स्यात् । यथा - तैमैत्रो ग्रामं गम्यः, तैमैत्रो मासमास्यते । षट् कारके तु णिगि प्रोक्तमन्यद्वा कर्म कर्मजः प्रत्ययो वक्ति । यथा - स तैमैत्रं ग्रामो गम्यः । तैमैत्रं मास आस्यते । क्रियाविशेषणस्यापि सकर्मकधातुषु नपुंसकत्वमेकत्वं कर्मत्वं च प्रयुज्यते । यथा - एवा ब्राह्मणी स्तोकं पचति सर्वं खादयति च । कुम्भः शीघ्रमुत्पद्यते । गलिगः सुखं जीवति । कर्मोपसंहारः कथ्यते । इत्येतत् प्राप्यं निर्वर्त्य विकार्य चेति त्रिधा इष्टानिष्टानुभयभेदैर्नवधा स्यात् । तत्पुनः प्रधानेतरभेदाभ्यामष्टादशधा । इति संक्षेपेण कर्मप्रपञ्च दर्शितः ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org