________________
पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत गुणान्तराधानात् यथा- स्वर्णकारः स्वर्णं कुण्डली कुरुते । प्रकृत्युच्छेदतो यथा-अग्निः काष्ठं दहति । यत्र क्रियाकृतो विशेषो नास्ति तत् प्राप्यम् । यथा-चाक्षुषः सूर्यं पश्यति। यदीप्सितं तदिष्टम् । यथा-बालो मृष्टान्नमत्ति । यद् द्विष्टं सत्प्राप्यते तदनिष्टम् । यथा- अन्धः सर्व लङ्घयति। यद्वा कण्टकान् मृद्राति । यत्रेच्छाद्वेषौ न स्तस्तदनुभयम् । यथा-पान्थो ग्राम गच्छंस्तरोर्मूलान्युपसर्पति। दुहादीनां धातूनां प्रयोगे यद् द्वितीयं कर्म तदकथितम् । तच्च यथा- गोपो गां पयो दोग्धि। मुख्य - गौणकर्मभेदमाहयचोपज्युयमानं पयःप्रभृति तन्मुख्यं कर्म । यत्र निमित्तमपरं तद्गौणं कर्म। तच गोप्रभृति नीयमानं भारादि । नीवह्यादेर्धातुगणस्य प्रधानं कर्म। तत् तव्यादौ प्रत्यये उक्तसञ्जम् । यथा-देवदत्तेन भारो ग्रामं नेयः। दुहि याचि रुधि प्रच्छि भिक्षि त्रुवि शासि चित्राः, नी वहि जि मोषि दण्डि मोदि कृषि मन्थि हृञ् प्रभृतयश्च धातवोऽपादानादिविधि बाधित्वा द्विकर्मका भवन्ति । यथा - मुनिः कृतकोपं शमं याचति । अविनीतं विनयं याचति । अत्र याचिरनुनयार्थी ग्राह्यस्तेनास्य भिक्ष्यर्थाद् भेदः । सत्ता शुद्धि समृद्धि वृद्धि शयन स्थानासन दीप्ति लज्जा जीवन रोदन हदन नृत्य प्रलाप क्रोध सन्तोष रुचि शोक दोष मरण स्पद्धो विहार भय मदोन्माद प्रमादाद्या अकर्मका धातवः । यदुक्तम्
सत्ताशुद्धिसमृद्धिवृद्धिशयनस्थानासने भासने, लज्जा जीवनरोदने च हदने नृत्ये प्रलापे क्रुधि । सन्तुष्टौ रुचिोकदोषमरणस्पर्धाविहारेषु च,
ज्ञेयो धातुरकर्मको भयमदोन्मादप्रमादेषु च ॥१॥ सकर्मकाकर्मकयोलक्षणमिदम् - यदा कर्तृक्रियारूपपदद्वन्द्वात् पृथक किमपेक्षा स्यात् तदा सकर्मको धातुरन्यथा अकर्मकः । यदुक्तम्
कर्तृक्रियापदद्वन्द्वात किमपेक्षा यदा पृथक् । तदा सकर्मको धातुर्विपरीतस्त्वकर्मकः ॥ १॥
अण्यन्तकर्ता ण्यन्तेषु कर्म स्यात् तत् कर्तृकर्म ज्ञेयम् । पुनरेष्वेव नीखाद्यदिहाशब्दायक्रन्दिवर्जितेषु बोधाहारगतिशब्दकर्मनित्याकर्मकधातुध्वेतद् भवति । यथा-आचार्यः शिष्यं तत्त्वं बोधयति । बोधार्थाः सामान्येन ज्ञानार्थाः। इन्द्रियगम्यार्था अपि दृश घ्रा स्पृश ध्यै स्मृ तुल्याश्च । मैत्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org