________________
-
पण्डितप्रवर श्री साधुसुन्दरगणि कृत उक्तिरत्नाकर
*
फ्र एैनमः फ्र
स्मृत्वा श्रीभारतीं देवीं गुरुपादांश्च भक्तितः । उक्तीनां सङ्ग्रहं वक्ष्ये स्वान्ययोर्हितहेतवे ॥ १ ॥
तावत् तदुपयोगिविभक्तिस्वरूपं निरूप्यते । तत्र कर्तृकर्मकरणसम्प्रदानापादानाधाररूपाणि षट् कारकाणि । सप्तमः सम्बन्धः । उक्तानुक्तभेदेन द्विधा षट् कारकाणि । तत्रोक्तेषु प्रथमेव विभक्तिः । अनुक्तेष्वनुक्रमेणैताः स्युः । कर्मणि द्वितीया । कर्तृ करणयोस्तृतीया । सम्प्रदाने चतुर्थी | अपादाने पञ्चमी । आधारे सप्तमी । सम्बन्धे षष्ठी । इति संक्षेपेण विभक्तयः कथिताः । विस्तरोऽग्रेऽभिधास्यते ।
I
-
करोतीति कर्त्ता । स त्रिविधः - खतन्त्रः, हेतुकर्त्ता, कर्मकर्त्ता च । यो न परैः प्रेर्यते स स्वतन्त्रती । यथा गौर्गच्छति । योऽन्यं कारयति स हेतुकर्ताच्यते । अनेककर्तृके मुख्यं कर्तारं प्रत्ययो वक्ति । यथा - राजा सूपकारेनौदनं पाचयति । यो नापरैः प्रयुक्तः परान् प्रेरयति स मुख्यः । यथा - राजा चैत्रेण श्रियं पोषयति । हेतुकर्ता त्रिधा - प्रेषकः, अध्येषकः, आनुकूल्यभागी च । यः प्रभुत्वेन प्रेरयति स प्रेषकः । यथा - राजा सेवकैः संग्रामं कारयति । यः सत्कारपूर्वकं प्रेरयति सोऽध्येषकः । यथा - श्रद्धावान् पुमान् गुरुं भोजयति । यो न प्रेषते नाध्येषते सोऽनुकूलभागी । चेतनाचेतनत्वेनानुकूल भागी द्विधा । चेतनो यथा-पुत्रो जनकं हर्षयति । अचेतनो यथा - कारीषोऽग्निर्ब्राह्मणमध्यापयति । यदा कर्ता स्वव्यापारं कर्मण्यारोपयति तदा कर्मकर्ता । यथा- पच्यते शालयः स्वयमेव । अत्र प्रस्तावादनुक्तभेदोऽपि कथ्यते । यथा - छात्रवृन्देन सरखती वन्द्यते ।
यत् क्रियते तत् कर्म । एतदनेकधा । निर्वर्त्य विकार्य - प्राप्यभेदेन त्रिधा । इष्टानिष्टानुभयभेदात् पुनस्त्रिधा । तथा अकथितं कर्म कर्तृकर्म च । यत्पूर्वमसज्जायते जन्मना वा प्रकाश्यते तन्निर्वर्त्यम् । असज्जायते यथा कारुः कटं करोति । जन्मना प्रकाश्यते यथा - माता सुतं सूते । यत् सतो गुणान्तराधानात् प्रकृत्युच्छेदतो वा विकारं प्रतिपद्यते तद्विकार्यम् ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org