________________
पण्डितप्रवर श्री साधुसुन्दरगणि-कृत
अथ करणम् । येन क्रियते तत् करणम् । तद् द्विधा - बाह्यमाभ्यन्तरं च । बाह्यं यथा - दात्रेण व्रीहीन् लुनाति । आभ्यन्तरं यथा - मनसा मेरुं गच्छति । अस्य करणस्य कारकान्तरतः स्वकाङ्क्षया प्रकर्षो न । यथा - दात्रैः शस्त्रैर्नखैर्वयो लूनाः । तद्बहुधाऽपि । एष रुद्रीय पशुं ददातीत्यर्थे कर्मणः करणसंज्ञा संप्रदानं च कर्म स्यात् । एष पशुना रुद्रं यजति । तथा समविषमयोः कर्मत्वे करणं भवति । यथा समेन धावत्यश्वः । विषमेण
I
धावत्यश्वः ।
४
अथ संप्रदानम् । तत् संप्रदानं यस्मै पूजानुग्रहकाम्यया दित्सा | संप्रदानं त्रिधा - अनुमन्तु प्रेरकं अनिराकर्तृ चेति । ददामीति वचनं श्रुत्वा एवं कुर्वित्यनुमन्यते तदनुमन्तृ । यथा - यजमानो गुरवे गां ददाति । यच्च देहीत्युक्त्वा दातारं प्रेरयति तत् प्रेरकम् । यथा - द्विजाय गां देहि । यन्नानुमन्यते नापि प्रेरयति किन्तु मूकवदास्ते तद् अनिराकर्तृ । यथादेवाय हेम दत्ते, राज्ञो दण्डं दत्ते, प्रतः पृष्ठिं दत्ते । अत्र दित्सा नास्ति । भट्टस्य शतं दत्ते । अत्र च नार्चानुग्रहकाम्यया दानं तेन न सम्प्रदानम् । तदेव संप्रदानं यत् त्यागभावयुक्तं स्यात् । दीयमानेन संयोगाद् यदि स्वामित्वं लभते । रजकस्य वस्त्रं दत्ते । अत्र त्यागाभावस्तेन न सम्प्रदानम् । द्विजस्य भाटकेन गृहं दत्ते । अत्र स्वामिता न । गृहस्य स्वामी हिजो न भवतीति न सम्प्रदानम् ।
अथापादानम् । यस्मादपायस्तदपादानम् । तदचलं चलं च । अचलं यथा - वृक्षात् पर्णं पतति । चलं यथा - धावतोऽश्वादपतदश्ववारः ।
I
अथाधिकरणम् । आधारोऽधिकरणम् । तत् पद्मकारम् । वैषयि कम् १, औपश्लेषिकम् २, आभिव्यापकम् ३, नैमित्तिकम् ४ सामीप्यकम ५, औपचारिकम् ६, चेति । विषयो नान्यत्र भावः । यथा - दिवि देवाः सन्ति । यत्रैकदेशसंयोगः स उपश्लेषः । यथा - चैत्रः कटे आस्ते; गृही गृहे तिष्ठति । यत्र सर्वाङ्गसंयोगस्तदभिव्यापकम् । यथा - तिलेषु तैलम्, दनि घृतम् । यस्य यन्निमित्तं तन्नैमित्तिकम् । यथा - शूरो युद्धे संनह्यते, व्याधो दन्तयोः कुञ्जरं हन्ति । समीपमेव सामीप्यम् । यथागङ्गायां घोषः, गङ्गासमीपे घोष इत्यर्थः । शकुनिर राकाशे याति, भक्तिमान् गुरौ नमति । यदुपचाराद्भवेत्तदौपचारिकम् । यथा - अङ्गुल्यग्रे करिशतमास्ते ।
अस्यायमिति सम्बन्धः । षष्ठ्युत्पत्तिस्तु मुख्यात् । तस्माद्विवक्षया सर्वाणि कारकाणि भवन्ति । स्वस्वामित्वादिभेदेन षष्ट्यधिकशतमर्थाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org