SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उक्तिरत्नाकर सन्ति । स्वस्वामित्वे यथा-राजा भूमेः पतिः, अयं गवां स्वामी। जन्यजनकसम्बन्धे यथा-पार्वतीपरमेश्वरी जगतः पितरौ। वध्यवधकभावे यथा-हरिः कंसस्य हिंसकः । भोज्यभोजकभावे यथा-मयूरोऽहेर्भोक्ता। धायेधारकभावे यथा-भृत्यश्छन्नस्य धारकः। उक्ता अनुक्तविभक्तयः। अथोक्तविभक्तीराह । तत्रोक्तः कर्ता यथा-जिनो जयति । कारको देवदत्तः । वैयाकरणः पुरुषः । कृतप्रणामो जनः । एवमादिष्वाख्यातकृत्-तद्धितप्रत्ययानां समासस्य च कर्तरि विहितत्वादुक्तः कर्तेत्युच्यते। उक्ते कर्तरि प्रथमैवेति न्यायात्, प्रथमा ।१।। 'जैनेन जीवदया क्रियते' इत्युक्तं कर्म । २। 'लात्यनेनेति लानीयं चूर्णम्' इत्युक्तं करणम् । ३।। 'दीयतेऽस्मै इति दानीयो ब्राह्मणः, एवं दक्षिणीयो ब्राह्मणः' इह संप्रदाने ईयप्रत्ययः, एवं 'दत्तभोजनोऽतिथिः' समासोऽत्र संप्रदाने । एवमादिषूक्तत्वात् संप्रदाने प्रथमा ।४। उक्तमपादानं यथा- 'विभेत्यस्मादसौ भीमो राक्षसः', एवं 'उच्छिन्नजनपदो देशः' समासोऽत्रापादाने । एवमादिपूक्तत्वादपादाने प्रथमा।५। ____ उक्तमधिकरणं यथा- 'आस्यतेस्मिन् तदासनम्' करणाधिकरणयोश्चेत्यधिकरणे युट् । एवं 'वटकिनी पौर्णमासी' प्रायेण वटकानि भुज्यन्तेऽस्यामित्यधिकरणे तद्धितेऽन् प्रत्ययः । एवं 'मत्तबहुमातङ्गं वनम्' समासोऽत्राधिकरणे । एवमादिषूक्तत्वादधिकरणे प्रथमा । ६। उक्तसम्बन्धो यथा-गावो विद्यन्तेऽस्य गोमान् देवदत्तः, एवं चित्रगुर्देवदत्तः। समासोऽत्र सम्बन्धे । एवमादिषूक्तत्वात्सम्बन्धे प्रथमा।७। इत्युक्तविभक्तयः। .. अयोक्त्युपयोगिनस्तदक्षरशब्दसंस्काराः केचित्तदर्थशब्दसंस्कारा अपि दयन्ते [देश्यशब्दाः तेषां संस्कृतरूपाणि च ।। अरिहंत अर्हन् । सूरिज सूर्यः । सुहगुरु शुभगुरुः। मगसिरनषत्र मृगशिरोनक्षत्रम् । ओझउ उपाध्यायः । आदरा आर्द्रा । आचारिज आचार्यः । असलेस अश्लेषा । ठवणारी स्थापनाचार्यः। सनीचर शनैश्चरः। साध साधुः। राह राहुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003411
Book TitleUktiratnakara
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages136
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy