Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
उक्तिरत्नाकर सन्ति । स्वस्वामित्वे यथा-राजा भूमेः पतिः, अयं गवां स्वामी। जन्यजनकसम्बन्धे यथा-पार्वतीपरमेश्वरी जगतः पितरौ। वध्यवधकभावे यथा-हरिः कंसस्य हिंसकः । भोज्यभोजकभावे यथा-मयूरोऽहेर्भोक्ता। धायेधारकभावे यथा-भृत्यश्छन्नस्य धारकः।
उक्ता अनुक्तविभक्तयः। अथोक्तविभक्तीराह । तत्रोक्तः कर्ता यथा-जिनो जयति । कारको देवदत्तः । वैयाकरणः पुरुषः । कृतप्रणामो जनः । एवमादिष्वाख्यातकृत्-तद्धितप्रत्ययानां समासस्य च कर्तरि विहितत्वादुक्तः कर्तेत्युच्यते। उक्ते कर्तरि प्रथमैवेति न्यायात्, प्रथमा ।१।।
'जैनेन जीवदया क्रियते' इत्युक्तं कर्म । २। 'लात्यनेनेति लानीयं चूर्णम्' इत्युक्तं करणम् । ३।।
'दीयतेऽस्मै इति दानीयो ब्राह्मणः, एवं दक्षिणीयो ब्राह्मणः' इह संप्रदाने ईयप्रत्ययः, एवं 'दत्तभोजनोऽतिथिः' समासोऽत्र संप्रदाने । एवमादिषूक्तत्वात् संप्रदाने प्रथमा ।४।
उक्तमपादानं यथा- 'विभेत्यस्मादसौ भीमो राक्षसः', एवं 'उच्छिन्नजनपदो देशः' समासोऽत्रापादाने । एवमादिपूक्तत्वादपादाने प्रथमा।५। ____ उक्तमधिकरणं यथा- 'आस्यतेस्मिन् तदासनम्' करणाधिकरणयोश्चेत्यधिकरणे युट् । एवं 'वटकिनी पौर्णमासी' प्रायेण वटकानि भुज्यन्तेऽस्यामित्यधिकरणे तद्धितेऽन् प्रत्ययः । एवं 'मत्तबहुमातङ्गं वनम्' समासोऽत्राधिकरणे । एवमादिषूक्तत्वादधिकरणे प्रथमा । ६।
उक्तसम्बन्धो यथा-गावो विद्यन्तेऽस्य गोमान् देवदत्तः, एवं चित्रगुर्देवदत्तः। समासोऽत्र सम्बन्धे । एवमादिषूक्तत्वात्सम्बन्धे प्रथमा।७।
इत्युक्तविभक्तयः। .. अयोक्त्युपयोगिनस्तदक्षरशब्दसंस्काराः केचित्तदर्थशब्दसंस्कारा अपि दयन्ते
[देश्यशब्दाः तेषां संस्कृतरूपाणि च ।। अरिहंत अर्हन् ।
सूरिज सूर्यः । सुहगुरु शुभगुरुः।
मगसिरनषत्र मृगशिरोनक्षत्रम् । ओझउ उपाध्यायः ।
आदरा आर्द्रा । आचारिज आचार्यः ।
असलेस अश्लेषा । ठवणारी स्थापनाचार्यः।
सनीचर शनैश्चरः। साध साधुः।
राह राहुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136