Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 19
________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत गुणान्तराधानात् यथा- स्वर्णकारः स्वर्णं कुण्डली कुरुते । प्रकृत्युच्छेदतो यथा-अग्निः काष्ठं दहति । यत्र क्रियाकृतो विशेषो नास्ति तत् प्राप्यम् । यथा-चाक्षुषः सूर्यं पश्यति। यदीप्सितं तदिष्टम् । यथा-बालो मृष्टान्नमत्ति । यद् द्विष्टं सत्प्राप्यते तदनिष्टम् । यथा- अन्धः सर्व लङ्घयति। यद्वा कण्टकान् मृद्राति । यत्रेच्छाद्वेषौ न स्तस्तदनुभयम् । यथा-पान्थो ग्राम गच्छंस्तरोर्मूलान्युपसर्पति। दुहादीनां धातूनां प्रयोगे यद् द्वितीयं कर्म तदकथितम् । तच्च यथा- गोपो गां पयो दोग्धि। मुख्य - गौणकर्मभेदमाहयचोपज्युयमानं पयःप्रभृति तन्मुख्यं कर्म । यत्र निमित्तमपरं तद्गौणं कर्म। तच गोप्रभृति नीयमानं भारादि । नीवह्यादेर्धातुगणस्य प्रधानं कर्म। तत् तव्यादौ प्रत्यये उक्तसञ्जम् । यथा-देवदत्तेन भारो ग्रामं नेयः। दुहि याचि रुधि प्रच्छि भिक्षि त्रुवि शासि चित्राः, नी वहि जि मोषि दण्डि मोदि कृषि मन्थि हृञ् प्रभृतयश्च धातवोऽपादानादिविधि बाधित्वा द्विकर्मका भवन्ति । यथा - मुनिः कृतकोपं शमं याचति । अविनीतं विनयं याचति । अत्र याचिरनुनयार्थी ग्राह्यस्तेनास्य भिक्ष्यर्थाद् भेदः । सत्ता शुद्धि समृद्धि वृद्धि शयन स्थानासन दीप्ति लज्जा जीवन रोदन हदन नृत्य प्रलाप क्रोध सन्तोष रुचि शोक दोष मरण स्पद्धो विहार भय मदोन्माद प्रमादाद्या अकर्मका धातवः । यदुक्तम् सत्ताशुद्धिसमृद्धिवृद्धिशयनस्थानासने भासने, लज्जा जीवनरोदने च हदने नृत्ये प्रलापे क्रुधि । सन्तुष्टौ रुचिोकदोषमरणस्पर्धाविहारेषु च, ज्ञेयो धातुरकर्मको भयमदोन्मादप्रमादेषु च ॥१॥ सकर्मकाकर्मकयोलक्षणमिदम् - यदा कर्तृक्रियारूपपदद्वन्द्वात् पृथक किमपेक्षा स्यात् तदा सकर्मको धातुरन्यथा अकर्मकः । यदुक्तम् कर्तृक्रियापदद्वन्द्वात किमपेक्षा यदा पृथक् । तदा सकर्मको धातुर्विपरीतस्त्वकर्मकः ॥ १॥ अण्यन्तकर्ता ण्यन्तेषु कर्म स्यात् तत् कर्तृकर्म ज्ञेयम् । पुनरेष्वेव नीखाद्यदिहाशब्दायक्रन्दिवर्जितेषु बोधाहारगतिशब्दकर्मनित्याकर्मकधातुध्वेतद् भवति । यथा-आचार्यः शिष्यं तत्त्वं बोधयति । बोधार्थाः सामान्येन ज्ञानार्थाः। इन्द्रियगम्यार्था अपि दृश घ्रा स्पृश ध्यै स्मृ तुल्याश्च । मैत्रो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136