Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ 10 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व पक्वश्यामाक-नीवार-वालुङ्क-कुवलादिभिः । अध्वन्यानामिहाऽध्वान, आतिथ्यमिव कुर्वते ॥ २११॥ पवनान्दोल्यमानेचवणध्वानरसौ शरत् । यानाभियोगसमयं, शसतीवाऽऽभियोगिनाम् ॥ २१२ ॥ पान्थानां तप्यमानानां, रुचिभिश्चण्डरोचिषः । आतपत्रीभवन्त्येते, क्षणं शारदवारिदाः ॥ २१३ ॥ एते सार्थककुअन्तः, ककुदैर्भिन्दते स्थलीः । सुखयात्राकृते भॉ, वैषम्यमवनेरिव ॥ २१४ ॥ गर्जन्तः प्लावयन्तः क्ष्मां, पुरा ददृशिरे हि ये । नेशुार्गवहास्तेऽत्र, प्रावृषेण्या घना इव ।। २१५ ॥ वल्लीभिः फलनम्राभिः, स्वच्छैस्तोयैः पदे पदे । पन्थानोऽयत्नपाथेयाः, पान्थानामिह जज्ञिरे ॥ २१६ ॥ राजहंमा इवोत्साहबहलीकृतचेतसः । गन्तुं देशान्तराण्यत्र, त्वरन्ते व्यवसायिनः ॥ २१७॥ __ तच्छ्रुत्वा सार्थवाहोऽपि, प्रयाणसमयोऽमुना । विज्ञप्त इति विज्ञाय, यात्राभेरीमवादयत् ॥ २१८ ॥ सार्थोऽपि रोदसीकुक्षिम्भरेभैरीवात् ततः । चचाल गोवृन्दमिव, गोपगोशृङ्गनादतः ॥ २१९ ॥ भव्याजबोधप्रवणैः, साधुभिः परिवारितः । मरीचिभिः सूर इव, सूरिरप्यचलत् ततः ॥ २२० ॥ अग्रतः पार्श्वतः पश्चादारक्षपुरुषैः स्वयम् । रक्षामासूत्र्य सार्थस्य, प्रतस्थे सार्थपो धनः ॥ २२१ ॥ महाटवीं समुत्तीणे, सार्थे सार्थपतिं ततः । अनुज्ञाप्याऽऽचार्यवर्या, विहर्तुं ययुरन्यतः ॥ २२२ ॥ __ ततश्च सार्थवाहोऽपि, निष्प्रत्यूहं वहन् पथि । पाथोधिमिव नद्योघो, वसन्तपुरमासदत् ।। २२३ ॥ विक्रीणीते स भाण्डानि, प्रतिभाण्डानि चाऽऽददे । कालेन कियताऽप्येष, धीमन्तो ह्याशुकारिणः।।२२४॥ परितो भरितस्तस्माद् , वारिधेखि वारिदः । क्षितिप्रतिष्ठं नगरं, पुनरप्याययौ धनः ॥ २२५ ॥ कालेन तत्र पूर्णायुः, कालधर्ममुपागतः । आस्थितैकान्तसुषमेषूत्तरेषु कुरुष्वसौ ॥ २२६ ।। सीतानद्युत्तरतटे, जम्बूवृक्षानुपूर्वतः । उत्पेदे 'युग्मधर्मेण, मुनिदानप्रभावतः ॥ २२७ ॥ तत्राऽष्टमस्य पर्यन्ते, मा भोज्याभिलाषिणः । षट्पञ्चाशशतद्वन्द्वसङ्ख्यपृष्ठकरण्डकाः ॥ २२८ ॥ युग्मरूपास्त्रिगव्यूतोच्छ्याः पल्यत्रयायुषः । पर्यन्तप्रसवाः स्वल्पकपाया ममतोज्झिताः ॥ २२९ ॥ अपत्ययुग्ममेकोनपश्चाशतमहानि तु । पालयित्वा विपद्यन्तेऽथोत्पद्यन्ते सुरेषु ते ॥ २३० ॥ शर्करास्वादुसिकताः, शरज्योत्स्नानिमाम्भसः । तत्रोत्तरेषु कुरुषु, भूभ्यो रम्याः स्वभावतः ॥ २३१॥ मद्याङ्गप्रमुखास्तत्र, दशधा कल्पपादपाः । मनुजानामयत्नेन, सदा यच्छन्ति वाञ्छितम् ॥ २३२ ॥ ददते तत्र मद्याङ्गा, मद्यं भृङ्गास्तु भाजनम् । तूर्याङ्गकास्तु तूर्याणि, वर्याणि विविधैर्लयैः ॥ २३३ ॥ दीपशिखा ज्योतिष्काच, तन्वन्त्युझ्योतमद्भुतम् । माल्यं यच्छन्ति चित्रीङ्गा, भोज्यं चित्ररंसाः पुनः॥ 25 भूषणानि तु मण्यङ्गा, गेहाकारा गृहाणि तु । सम्पादयन्ति चाऽनग्ना, दिव्यवासांस्यनेकशः ॥२३५॥ एते च नियतानर्थान् , यच्छन्त्यनियतानपि । अन्ये च कल्पतरवस्तत्र सर्वेप्सितप्रदाः ॥ २३६ ॥ दिवीव तत्र कल्पद्रुसम्पन्नसकलेप्सितः । धनजीवो युग्मधर्माऽन्वभूद् वैषयिकं सुखम् ॥ २३७ ॥ मिथुनायुः पालयित्वा, धनजीवस्ततश्च सः । प्राग्जन्मदानफलतः, सौधर्मे त्रिदशोऽभवत् ॥ २३८ ॥ ___ च्युत्वा सौधर्मकल्पाच्च, विदेहेष्वपरेष्वथ । विजये गन्धिलावत्यां, वैताठ्यपृथिवीधरे ॥२३९॥ 30 गन्धाराख्ये जनपदे, पुरे गन्धसमृद्धके । राज्ञः शतबलाख्यस्य, विद्याधरशिरोमणेः ॥ २४॥ भार्यायां चन्द्रकान्तायां, पुत्रत्वेनोदपादि सः । नाना महाबल इति, बलेनाऽतिमहाबलः ॥ २४१ ॥ रक्ष्यमाणः स आयुक्तैलाल्यमानस्तथा तथा । वृद्धिमासादयामास, शाखीव क्रमयोगतः ॥ २४२ ॥ श्यामाकस्तृणधान्यविशेषः, नीवारो धान्यविशेषः, वालुङ्कः चिर्भटकम्, कुवलं बदरीफलम् , "काकडी बोर" इति लोकभाषायाम् । २ पान्थानाम् । ३ मार्गाः। ४ यात्रोत्सुकानाम् । ५ मार्गप्रवाहाः। ६ व्यापारिणः। ७ सूर्यः। ८ रक्षकनरैः । ९ निर्विघ्नम् । * वृक्षस्य पू आ, सं२॥ । युग्मरूपेण सं १, खं ॥१० चतुर्थे दिवसे । ११ पृष्टस्थितसूक्ष्मगात्रावयवाः । १२ देवः । १३ रक्षकैः । १४ वृक्ष इव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254