Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ प्रथमः सर्गः] त्रिपष्टिशलाकापुरुषचरितम् । यद्वस्तुपु स्थिरत्वे धीर्वासना तत्र कारणम् । पूर्वापरक्षणानां तदेकत्वं वास्तवं न तु ॥ ३७६ ॥ ___ अथोवाच स्वयम्वुद्धो, वस्तु नास्ति निरन्वयम् । अम्भस्तृणादि हि गवां, हन्त ! दुग्धाय कल्पते ॥३७७॥ आकाशपुष्पवत् कूर्मरोमवञ्च निरन्वयम् । नैव वस्तु भवत्यत्र, तद् वृथा क्षणभङ्गधीः ॥ ३७८ ॥ वस्तु चेत् क्षणविध्वंसि, सन्तानः क्षणिको न किम् ? । सन्तानस्य च नित्यत्वे, समस्तं क्षणिकं कुतः?॥३७९॥ सर्वभावेष्वनित्यत्वे, निहितप्रतिमार्गणम् । स्मरणं प्रत्यभिज्ञा च, कथं नामोपपद्यते ? ॥ ३८० ॥ 5 जन्मानन्तरनाशित्वे, द्वितीयक्षणसम्भवी । पित्रोन पुत्रः पितरौ, न पुत्रस्येत्यसङ्गतिः ॥ ३८१ ॥ विवाहसमयादूर्वा, जम्पत्योः क्षणनाशिनोः । न जायायाः पतिः पत्युर्न जायेत्यसमञ्जसम् ॥ ३८२ ॥ इह कृत्वाऽशुभं कर्म, स नाऽमुत्राऽश्नुते फलम् । भुङ्क्तेऽन्यः किन्तु तदिति, कृतनाशाऽकृतागमौ ॥३८३॥ __ तुर्योऽप्युवाच मायाऽसौ, तत्त्वतो नास्ति किश्चन । दृश्यमानमपि स्वाम-मृगतृष्णादिसन्निभम् ॥३८४ ॥ गुरुः शिष्यः पिता पुत्रो, धर्मोऽधर्मो निजः परः । इत्यादि दृश्यते यत् स, व्यवहारो न तात्त्विकम् ॥३८५।। 10 विहाय जम्बुको मांसं, तीरे मीनाय धावितः । मीनोऽथ प्राविशत तोये, मांसं गृध्रोहरद यथा ॥३८६॥ तथैहिकसखं हित्वा. परलोकाय धाविताः । आत्मानमभयभ्रष्टा. वञ्चयन्ते हि ते नराः ॥३८७॥ पाखण्डिनामलीकाज्ञां, श्रुत्वा नरकभीरवः । दण्डयन्ति निजं देहमहो ! मोहाद् व्रतादिना ॥ ३८८ ॥ यथा क्षमापातशङ्ककाङ्किणा नृत्यति लावकः । तथाभिशङ्कय नरकपातं जन्तुस्तपस्यति ॥ ३८९ ॥ स्वयम्वुद्धोऽब्रवीद् वस्तु,न सच्चेदर्थकृत् कथम् ? । माया चेदीदृशी तर्हि, स्वमेभः किं न कार्यकृत् ॥३९०॥15 कार्यकारणभावं चेद्, वस्तूनां पारमार्थिकम् । न मन्यसे तदा किं त्वं, बिभेषि पततोऽशनेः? ॥ ३९१ ॥ एवं सति न त्वं नाऽहं, न वाच्यं न च वाचकः। तदेष्टप्रतिपत्तिः स्याद्, व्यवहारकरी कथम् ? ॥३९२॥ वितण्डापण्डितैरेभिः, स्वयं विषयगृभुभिः । देव ! प्रतार्यसे नित्यं, शुभोर्दकपराङ्मुखैः ॥ ३९३ ॥ ततो विवेकमालम्ब्य, विषयांस्त्यज दूरतः । धर्ममेवाश्रय स्वामिन्नत्राऽमुत्र च शर्मणे ॥ ३९४ ॥ __ अथ राजाऽब्रवीदेवं, प्रसादसुभगाननः । खयम्बुद्ध ! महाबुद्धे !, साधु साधूक्तवानदः ॥ ३९५ ॥ 20 युक्तं धर्म उपादेयो, न धर्मद्वेषिणो वयम् । उपादीयेत कालेऽसौ, मत्रास्त्रमिव सङ्गरे ॥ ३९६ ॥ चिरादभ्यागतं मित्रमिव को नाम यौवनम् । उपेक्षेत तदुचिता, प्रतिपत्तिमकल्पयन् ? ॥ ३९७ ॥ धर्मोपदेशस्तदयं, त्वयाऽनवसरे कृतः । वीणायां वाद्यमानायां, वेदोद्गारो न राजते ॥ ३९८ ॥ परलोको हि धर्मस्य, फलं सन्दिग्धमेव तत् । तदैहिकसुखास्वादमकाण्डे किं निषेधसि ? ॥ ३९९ ॥ ___ अथ विज्ञपयामास, स्वयम्बुद्धः कृताञ्जलिः । आवश्यके धर्मफले, मा शतिष्ठाः कदाचन ॥४००॥ 25 किं न स्मरसि बालत्वे, यदावां नन्दने वने । अपश्याव गतावेकं, कान्तिरूपधरं सुरम् ? ॥ ४०१ ॥ सप्रसादो जगादैवं, स देवस्त्वां तदा नृप! । अहं ह्यतिबलो नाम, भवतोऽसि पितामहः ॥ ४०२ ॥ क्रूरमित्रादिवोद्विग्नोऽमुष्माद् वैषयिकात् सुखात् । राज्य तृणमिव त्यक्त्वा, निरनीमहमाश्रयम् ॥ ४०३ ॥ व्रतप्रासादकलसः, संन्यासोऽन्तक्षणे मया । गृहीतस्तत्प्रभावेण, जातोऽहं लान्तकाधिपः ॥ ४०४॥ प्रमद्वरेण न स्थेयं, तत् त्वयाऽपीत्युदीर्य च । विद्योतितवियद्विद्युदिव सोऽथ तिरोदधे ॥ ४०५॥ 30 मन्यस्व परलोकं तद्, वचः पैतामहं स्मरन् । प्रत्यक्षेऽपि प्रमाणे किं, प्रमाणान्तरकल्पना? ॥४०६॥ राजाऽप्यूचे सारितोऽस्मि, साधु पैतामहं वचः । परलोकमहं मन्ये, धर्माधर्मनिबन्धनम् ॥ ४०७ ॥ मिथ्यादृग्वाक्पांशुपुञ्जजलदः सोऽथ मत्रिराट् । लब्धावकाशः सानन्दमिति वक्तुं प्रचक्रमे ॥ ४०८॥ तव वंशेऽभवत् पूर्व, कुरुचन्द्रो नरेश्वरः । जाया कुरुमती तस्य, हरिचन्द्रश्च नन्दनः ॥ ४०९ ।। १ निःसन्तानम् । २ न्यासीकृतस्य प्रतियाचनम् । ३ असत्याज्ञाम् । ४ पक्षिविशेषः । ५ विषयलोलुपैः। ६ शुभोत्तरकालविमुखैः । * "वार्जय वासं १॥ युद्धे। शानदर्शनचारित्ररूपाम् ।९ प्रमादिना। १० प्रकाशिताकाशः । *हरिश्चन्द्र सं१,२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254