Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 95
________________ ७४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व अनन्तैर्दर्शनज्ञानवीर्यानन्दैर्जगत्पते! । रत्नै रत्नाकर इव, त्वमिहैको विराजसे ॥ ४७९ ॥ देवेह भरतक्षेत्रे, चिरं नष्टस्य सर्वथा । धर्मस्याऽसि प्ररोहाय, वीजमेकं तरोरिव ॥ ४८० ॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेत्सि छिनत्सि सन्देहं, न माहात्म्यावधिस्तव ॥४८१॥ फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत् सुराणां समग्राणां, महर्द्धिद्युतिभास्वताम् ॥ ४८२ ॥ देव ! त्वद्भक्तिहीनानां, तपांस्यतिमहान्त्यपि । अबोद्धणामिव ग्रन्थाभ्यासः क्लेशाय केवलम् ॥ ४८३ ॥ यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयोस्तयोः । शुभाशुभं फलं किन्तु, भिन्नं चित्रीयते हि नः ॥४८४॥ द्युश्रियाऽपि न तोषो मे, नाथ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूयात् , त्वयि भक्तिर्ममाऽक्षया ।।४८५॥ इत्यभिष्टुत्य नत्वा च, निषसाद कृताञ्जलिः । नारीनरनरदेवदेवानामग्रतो हरिः ॥ ४८६ ॥ इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तु, मरुदेवां दिवामुखे ॥४८७॥ 10 तनूजविरहोद्भूतैरश्रान्तैरवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् ॥ ४८८ ॥ ज्येष्ठः पौत्रो नमत्येष, देवि! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ॥४८९॥ [युग्मम्] स्वामिनी मरुदेवापि, भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युजगार च ।। ४९० ॥ मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो! ॥४९१॥ सूनोश्चन्द्रातपच्छायमातपत्रं क मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? ॥ ४९२ ॥ 15 सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क तत् ? | वत्सस्य पादचारित्वं, क्वेदानी पथिकोचितम् ? ॥४९३॥ क तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ? । मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? ॥ ४९४ ॥ व तद् देवसमानीतदिव्याहारोपजीवनम् ? । क भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? ॥ ४९५ ॥ रत्नसिंहासनोत्सङ्गे, महर्द्धः क्व तदासनम् ? । मत्सूनोः खगिन इव, व निरासनताऽधुना ? ॥ ४९६ ॥ आरक्षरात्मरक्षश्च, रक्षिते व पुरे स्थितिः ? । सूनोः क्व वासः सिंहाहिदुःश्वापदपदे बने ? ॥ ४९७ ॥ 20 क तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? । सूनोः कोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ॥ ४९८ ॥ अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ॥ ४९९ ॥ हिमत्तौं हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ॥ ५०० ॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽधिकम् ॥ ५०१ ॥ तदेवं सर्वकालेषु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ॥ ५०२ ॥ 25 तत्तदुःखाकुलं वत्सं, पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ॥५०३॥ इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासधीच्या वसुधाधवः ॥ ५०४ ॥ स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ॥ ५०५ ॥ तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान, स्थाने तत्याज नः प्रभुः॥५०६॥ वने विहरतो भर्तः, प्रभावाच्छापदा अपि । नोपदवं कर्तमलं. पाषाणघटिता इव ॥ ५०७॥ 30 क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ॥ ५०८ ॥ न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराजातकेवलोत्सववार्त्तया ॥ ५०९ ॥ अत्रान्तरे महीभर्तुओपितौ वेत्रपाणिना । नाम्ना यमक-शमको, पुरुषावभ्युपेयतुः ॥ ५१० ॥ प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवाऽनया कल्याणवार्तया ॥ ५११ ॥ पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ॥ ५१२ ॥ 35 प्रणम्य शमकोऽप्युच्चैःवरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत ॥ ५१३ ॥ अधुजलैः। २ नेत्ररोगविशेषः । ३ गण्डकाख्यपशोः। ४ जलोपद्रवम्। ५ ग्रीष्मत्तौं । ६ अस्मान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254