Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 106
________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । महासाराण्युदाराणि, तत्र पत्रिणि मत्रिराट् । दीव्यमत्राक्षराणीवेत्यक्षराणि व्यलोकयत् ॥ १२९ ॥ राज्येन यदि वः कार्य, जीवितव्येन वा यदि । ततः सेवां कुरुध्वं नः, स्वसर्वखोपढौकनात् ॥ १३० ॥ इत्यादिशति वः साक्षात् , सुरासुरनरेशितुः । ऋषभस्वामिनः सूनुर्भरतश्चक्रवर्त्ययम् ॥ १३१ ॥ मत्री दृष्ट्वाऽक्षराण्येवं, विज्ञायाऽवधिना च तत् । दर्शयन् स्वामिनो बाणमुच्चकैरित्यवोचत ॥ १३२ ॥ भो भोः सर्वे राजलोका !, धिग् वो रभसंकारिणः । स्वामिनोऽर्थधियाऽनर्थदायिनो भक्तमानिनः॥१३३॥ 5 भरतो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यभूत् । सूनुः प्रथमतीर्थेशऋषभस्वामिनो ह्ययम् ॥ १३४ ॥ स एष याचते दण्डं, दिधारयिषते च वः । पाकशासनवच्चण्डशासनः शासनं निजम् ॥ १३५ ॥ अपि शोष्येत पाथोधिर्मेरुरप्युद्रियेत च । कृतान्तोऽपि निहन्येतोत्क्षिप्येताऽपि वसुन्धरा ॥ १३६ ॥ दम्भोलिरपि दल्येत, विध्याप्येताऽपि वाडवः । कथञ्चन न जीयेत, चक्रवर्ती महीतले॥१३७॥ [युग्मम्] देवाऽयं वार्यतां लोकः, स्तोकधी/मतांवरः । प्रगुणीक्रियतां दण्डश्चक्रिणे प्रणतो भव ॥ १३८॥ 10 आकण्ये मत्रिवाचं तां, दृष्ट्वा तान्यक्षराणि च । गन्धेभगन्धमाघ्राय, करीव प्रशशाम सः॥१३९ ॥ उपायनमुपादाय, तं चेषु मागधाधिपः । उपेत्य भरताधीशं, नत्वा चैवं व्यजिज्ञपत् ॥ १४०॥ दिष्ट्या दृष्टिपथं प्राप्तोऽस्यधुना मम भूपते! । स्वामिन् ! कुमुदखण्डस्य, शशाङ्क इव पार्वणः ॥१४१॥ भगवानृषभस्वामी, प्रथमस्तीर्थकृद् यथा । प्रथमश्चक्रवर्ती त्वं, तथा विजयसे भुवि ॥ १४२ ॥ सुरेभस्य प्रतीभः को?, वायोः प्रतिबली च कः?। नमसः प्रतिमानं कः?, प्रतिमल्लश्च तेऽस्तु कः॥१४३।। 15 आकर्णाकृष्टकोदण्डानिर्यातं ते शिलीमुखम् । अलम्भविष्णुः कः सोलु, बिडौजस इवाऽशनिम् ? ॥१४४॥ प्रसादं कुर्वता त्वेष, प्रमत्तस्य मम त्वया । कर्त्तव्यज्ञापनायेषुः, प्रेषि वेत्रिपुमानिव ॥ १४५ ॥ अतः परमहं नाथ !, महीनाथशिरोमणे!। शिरोमणिमिवाऽऽज्ञां ते, धारयिष्यामि मूर्धनि ॥ १४६ ॥ स्वामिन् ! मागधतीर्थेऽस्मिन् , स्थास्याम्यारोपितस्त्वया। तवैव प्राग्जयस्तम्भ, इव निर्दम्भभक्तिभाक् ॥१४७॥ एते वयमिदं राज्यमेष सर्वः परिच्छदः । त्वदीयमेवाऽन्यदपि, शाधि नः पूर्वपत्तिवत् ॥ १४८॥ 20 इत्युक्त्वा सोऽर्पयामास, चक्रिणे पत्रिणं सुरः । तच्च मागधतीर्थाम्भः, किरीटं कुण्डले अपि ॥ १४९ ।। तच्च राजा प्रतीयेष, मागधाधिपति च तम् । सच्चकार महान्तो हि, सेवोपनतवत्सलाः ॥ १५० ॥ ___ अथो रथं वालयित्वा, पथा तेनैव पार्थिवः । स्कन्धावारं निजमगात् , सुत्रामेवाऽमरावतीम् ॥१५१॥ अवरुह्य रथादङ्ग, प्रक्षाल्य सपरिच्छदः । चकाराऽष्टमभक्तान्तपारणं भरतेश्वरः॥१५२ ॥ तदा मागधनाथस्य, महद्धर्या वसुधाधवः । चक्रस्येवोपनतस्य, विदधेऽष्टाहिकोत्सवम् ॥१५३॥ 25 आदित्यस्यन्दनस्रस्तमिव तेजोभिरुल्वणम् । अष्टाहिकोत्सवान्ते च, चक्ररत्नं चचाल खे ॥ १५४ ॥ दक्षिणस्यां वरदामतीर्थ प्रति ययौ ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवाऽन्वगात् ॥ १५५ ॥ प्रयाणैः प्रत्यहं गच्छन् , राजा योजनमात्रकैः । दक्षिणाब्धि क्रमात् प्राप, मानसं राजहंसवत् ॥१५६ ॥ एलालवङ्गलवलीकक्कोलबहले नृपः । सैन्यान्यावासयामास, दक्षिणाम्भोधिरोधसि ॥१५७ ॥ आवासान् सर्वसैन्यस्य, पौषधौकश्च वर्द्धकिः । पूर्ववद् रचयामास, शासनाचक्रवर्तिनः॥१५८॥ 30 वरदामामरं चित्ते, कृत्वाऽष्टमतपोऽकरोत् । नृपतिः पौषधागारे, पौषधं च समाददे ॥ १५९ ॥ पौषधान्ते बहिर्भूत्वा, नृपः पौषधवेश्मनः । उपाददे धनुः कालपृष्ठं प्रष्ठो धनुर्भृताम् ॥ १६० ॥ सर्वतः स्वर्णरचितं, खचितं रत्नकोटिभिः । आरुरोह रथं राजा, वासागारं जयश्रियः ॥ १६१ ॥ अधिष्ठितो नृदेवेनाऽत्युदाराकारधारिणा । प्रासाद इव देवेन, शुशुभे स महारथः ॥१६२॥ अनुकूलमरुल्लोलपताकामण्डिताम्बरः । स सन्दनवरोऽम्भोधौ, यानपात्रमिवाऽविशत् ॥ १६३ ॥ १ साहसकारिणः । २ धारयितुमिच्छति । ३इन्द्रवत् । ४ वडवामिः। ५ मल्पबुद्धिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254