Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 125
________________ १०४ कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व यदि चौषधयो दिव्याः, प्राप्यन्ते नाऽस्मदोकसि । तदोषयीभी रहितो, हिमाद्रिरपि सम्प्रति ॥ ७४२ ॥ ये पश्यन्निमां क्षामां, दरिद्रतन यामिव । तदहो ! वैरिभिरिव, भवद्भिर्वश्चितोऽस्म्यहम् ॥ ७४३ ॥ प्रणम्य भरतं तेऽपि, प्रोचुरेवं नियोगिनः । सर्वमप्यस्ति देवस्य, देवेन्द्रस्येव सद्मनि ॥ ७४४ ॥ किन्तु देवो यदायगाद् , दिग्जयाय तदाद्यसौ । आचामाम्लानि कुरुते, प्राणत्राणाय केवलम् ॥७४५ ॥ तथा यदैव देवेन, प्रव्रजन्ती न्यषिध्यत । ततः प्रभृत्यसौ तस्थौ, भावतः संयंतेव हि ॥ ७४६ ॥ कैल्याणिनेयि ! कल्याणि !, प्रविजिषसीति सा । अनुयुक्ता महीनाथेनैवमेवेत्यवोचत ॥ ७४७॥ भरतोऽप्यभ्यधादेवं, प्रमादेनाऽऽर्जवेन वा । अहमस्या इयत्कालं, व्रतविघ्नकरोऽभवम् ॥ ७४८ ॥ अपत्यं तातपादानामनुरूपमसौ खलु । असक्तं विषयासक्ता, राज्यातृप्ताश्च के वयम् ? ॥ ७४९ ॥ आयुर्विनश्वरतरं, वार्द्धिवारितरङ्गवत् । जानन्तोऽपि न जानन्ति, जना विषयगृनवः ॥ ७५० ॥ गत्वरेणाऽऽयुषाऽनेन, मोक्षः साध्येत साधु तत् । मार्गावलोकनमित्र, विद्युता दृष्टनष्टया ।। ७५१ ॥ यकृच्छकृन्मूत्रमलखेदामयमयस्य यत् । प्रसाधनं वपुषस्तद्, गृहस्रोतोऽधिवासनम् ।। ७५२ ॥ आदत्से वपुषाऽनेन, साधु मोक्षफलं व्रतम् । क्षीराब्धितोऽपि रत्नानि, गृह्णन्ति निपुणाः खलु ॥७५३ ॥ अनुज्ञाता नरेन्द्रेण, मुदितेन व्रताय सा । तपःकृशाऽप्यकुशेव, प्रमदोच्छसिताऽभवत् ।। ७५४ ॥ अत्रान्तरे च भगवान , विहरन् वृषभध्वजः । अष्टापदगिरावागाजगदैहिबलाहकः ॥ ७५५ ॥ चक्रुश्च देवाः समवसरणं तत्र पर्वते । अपरं पर्वतमिव, रत्नकाञ्चनरूप्यजम् ॥ ७५६ ॥ कुर्वाणं देशनां तत्र, स्वामिनं गिरिपालकाः । एत्य विज्ञपयामासुर्भरतस्वामिने द्रुतम् ।। ७५७ ॥ __ षट्खण्ड भरतक्षेत्रविजयादधिकं ततः । तमुदन्तं समाकर्ण्य, मुमुदे मेदिनीपतिः ॥ ७५८ ॥ खामिनमागमयन्यो भृत्येभ्यः पारितोषिकम् । ददौ कोटीः सुवर्णस्य, सार्की द्वादश पार्थिवः ॥ ७५९ ॥ त्वन्मनोरथसंसिद्धिरित्र मूर्ती जगद्गुरुः । विहरनाजगामेह, सुन्दरीमित्युवाच च ।। ७६० ॥ अकारयनिष्क्रमणाभिषेकं भरतेश्वरः । तस्याः स्वान्तःपुरवधूर्जनैर्दासीजनैरिव ॥ ७६१ ॥ कृतस्नानाऽथ सा सद्यः, कृतपुण्यविलेपना । विलेपनान्तरमिव, पर्यधात् सदशांशुके ॥ ७६२ ॥ आमुमोच च सा रत्नालङ्कारानुत्तमानय । तस्याः शीलमलङ्कारोऽलङ्काराः प्रक्रियाकृते ॥ ७६३ ॥ तथास्थितायाः सुन्दर्याः, पुरतो रूपसम्पदा । स्त्रीरनं सा सुभद्राऽपि, चेटीवत् प्रत्यभासत ॥७६४ ॥ यो यद् ययाचे तत् तस्मै, वितताराऽविलम्बितम् । जङ्गमा कल्पवल्लीव, सुन्दरी शीलसुन्दरी ।। ७६५॥ कर्पूरधुलिधवलैर्वासोभिरुपशोभिता । कुमुदिनी मैरालीव, शिविकामारुरोह सा ।। ७६६ ॥ निषादिसादिपादातस्यन्दनच्छन्नभूमिना । अन्वयायि नरेन्द्रेण, मरुदेवीव सुन्दरी ॥ ७६७ ॥ वीज्यमाना चामराभ्यां, श्वेतच्छत्रेण शोभिता । वैतालिकैः स्तूयमाननिबिडव्रतसंश्रया ।। ७६८ ॥ भ्रातृजायाभिरुद्गीतप्रवज्योत्सवमङ्गला । उत्तार्यमाणलवणा, वरस्त्रीभिः पदे पदे ॥ ७६९ ॥ राजन्ती सह गच्छद्भिः, पूर्णपात्रैरनेकशः । स्वामिपादपवित्रं सा, प्रापदष्टापदाचलम् ॥ ७७० ॥ [त्रिभिर्विशेषकम् ] सच्चन्द्रमिव पूर्वादि, तमद्रिं स्वाम्यधिष्ठितम् । दृष्ट्वा भरतसुन्दरों, महान्तं हर्षमीयतुः ॥ ७७१ ॥ वर्गापवर्गयो राज्यं, सोपानमिव विस्तृतम् । तं विशालशिलं शैलं, समारुरुहतुश्च तौ ॥ ७७२ ॥ १ यतः प्रभृति। * आचाम्लानि कुरुते च प्रा खं ॥ + श्लोकोऽयं आपुस्तके नोपलभ्यते । २ दीक्षिता । ३ करूपाण्या: अपत्यं कल्याणिनेयी तत्सम्बुद्धी। ४ प्रव्रजितुमिच्छसि । ५ पृष्टा । ६ निरन्तरम् । ७ कुओ दक्षिण भागस्थो मांसपिण्डः । ८ विष्ठा । ९ मण्डनम् । १० जगन्मयूरमंघः। ११ वृत्तान्तम् । स्वाम्य गमयतां तेषां भृत्यानां पा सं २, आ॥ १२ आचारार्थम् । १३ दासीवत् । १४ हंसीव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254